________________
क्षीरतरङ्गिण्यां
सर्सर-बुबुद-मुर्मुर-मर्मर-दर्दर-पुर्पु रादि' [षु ] द्वित्वं पृषोदरादित्वात् । चुरादौ स्तनगदी देवशब्दे (१०।२८५) इत्यदन्तः-गद
यति ॥५०॥
४४. रद विलेखने। विलेखनमुत्पाटनम् । रदति । ल्युः (द्र० ३। ५ १११३४) रदनः । अचि (द्र० ३।१।१३४) रदो दन्तः ॥५१॥
४५. णद अव्यक्ते शब्दे । नदति । उपसर्गादसमासेऽपि (८।४।१४) इति णत्वम् -प्रणदति । नौ गदनद (३।३।६४) इति वा अप-निनदः, निनादः । पचादौ (द्र० ३।१।१३४) नदट-नदः, नदी। अनुनश्च
(उ० ३।५२)-नदनुः । चुरादौ (१०।२२३) भासार्थः-नाद१० यति ॥५२॥
४६. अर्द गतौ याचने च । अर्दति । यातने चेत्येके--अदितः खेदित इत्यर्थः । तस्मान् नुड् द्विहल: (७।४।७१) इति लिटि नुट-मानद । नन्द्राः संयोगादयः (६।१।३) इति रेफो न द्विरुच्यते-अदिदिषति ।
ल्युः (द्र० ३।१।१३४) जनार्दनः । अर्देः संनिविभ्यः (७।२।२४) १५ निष्ठायां नेट-समणः । प्रभेश्चाविदूर्ये (७।२।२५) अभ्यणे सेने प्रासाते । चुरादौ प्रर्द, हिसि हिंसायाम (१०।२५५) अर्दयति ॥५३॥
४७. नई गर्द शब्दे । नर्दति । प्रनर्दति, णोपदेशत्वम् अतन्त्रम्, परिगणनात् । गर्दति । शकशलिकलिदिभ्योऽभच् (तु० उ० ३।
१२२)-गर्दभः ॥५४,५५॥ २० ४८. तर्द हिंसायाम् । तदति। विदिका वेदी ॥५६।।
१. हस्तलेखेषु 'पूर्वादि' पाठः। स चाशुद्धः ।
२. पृषोदरादीनि यथोपदिष्टम् (६।३।१०६) इति सूत्रे पृषोदरादेरा. कृतिगणत्वाद् इति भावः।
३. नदनु: मेघः । ४. एतेन ज्ञायते यत् क्षीरस्वामिनो धातुपाठे 'णर्द' इति णोपदेशपाठ २५ प्रासीत् ।
____५. 'सर्वे नादयो णोपदेशाः, नृति-नन्दि नदि-नक्कि-नाटि-नाथ-नाध-नवर्जम्' इति णोपदेशस्मृतौ नर्देः प्रतिषेध त् णोपदेशत्वमविवक्षितम् इति भावः ।
६. 'वेदिका' पाठा० ।