________________
भ्वादिगणः (१)
२५
३६. षिवू शास्त्र माङ्गल्ये च । शास्त्रं शात्रविषयं शासनम् । माङ्गल्यं मङ्गलविषया क्रिया' । अत्रैवायमूदित्, अर्थान्नरे पुनरुदित् । अदित्त्वात् स्वरतिसूति (७।२।४४) इति वेट-सेद्धा पुत्रं, शासितेत्यर्थः, सेधिता । लिटि क्रादिनियमान् नित्यमिट सिषिधिव । वस्वेकाजादघसाम (७।२।६७) इति क्वसोनियमादिड नास्ति- ५ सिषिद्ध्वान् । दिवादौ बिधु संराद्धौ (४।८१) अनिट्-सिध्यति, सेद्धा ॥४६॥
४०. खाद भक्षणे । खादति, अचखादत् । अदिखादिनीवहीनां प्रतिषेधात् (द्र० १।४।५२ वा०) कर्मसंज्ञा नास्ति-खादयति पिण्डी चैत्रेण । निन्द-हिंस-क्लिश-खाद (३।२।१४६) इति वुञ्-खादकः ॥४७॥ १०
४१. खद स्थैर्य हिंसायां च । खदति । अचि (द्र० ३।११३४) खदा । अजिर शिशिर (उ० ११५४) इति खदिरः ॥४८॥ ___४२. बद स्थैर्ये । बदति, बद्यते । भ्रमरादौ' बदरम्, बदरी । बदिर् अोष्ठयादिः । वद व्यक्तायां वाचि (१७३५) इति तु दन्त्यौष्ठ्यादि:- वदति, उद्यते । पदेति कण्ठः-पदति ॥४६॥
४३. गद व्यक्तायां वाचि । गदति । नेर्गद (८।४।१७) इत्यूपसर्गाण्णत्वम् -प्रणिगदति । गदमदचरयम (३।१।१००) इति गद्यम् । नौ गदनदपठ (३।३।६४) इति वा अप-निगदः, निगादो घञ् (द्र० ३।३।१८), भिदादौ (द्र० ३।३।१०४) गदा । गदोऽचि (द्र. ३॥१॥ १३४ )। चर्चर-वर्वर-गद्गद-घुर्घर-घर्घर-जर्जर-झझर-कर्कर-भर्भर- २० .. १. 'शास्त्र........"क्रिया' इत्युद्धृतमिदं पुरुषकारे (पृष्ठ ८७) स्मृतं च . धातुवृत्ती (पृष्ठ ५०)।
२. द्र० 'षिधु गत्याम्' (११३८) धातुसूत्रम् । ____३. कृसृभृभ्योऽनुदात्तेभ्यो लिटि इट् प्रतिषेधः सिद्ध एव, किं पुननिषेधन, एवं तहि व्यर्थं सज्ज्ञापयति यदि लिटि इनिषेधस्तहि क्रादिभ्य एव, नान्ये- २५ भ्यः । अयमेव नियमः क्रादिनियम उच्यते। ४. अचि स्त्रियां टाप् ।
५. 'विसरादौ' इति पाठा० । भ्रमरादिविसरादिर्वा न क्वचिदुपलभ्यते गणः । अत्र कदाचित् 'उणादौ' इति युक्तः पाठः स्यात् । अत्र उ० ३११३१ सूत्रव्याख्यानमालोचनीयम् ।