________________
२४
क्षीरतरङ्गिण्यां ___३७. कुथि पुथि लुथि मन्य हिंसासंक्लेशयोः'। हिंसा प्राण्युपघातः, संक्लेशो वाधा । कुन्थति, कुन्थ्यते । नोपधात् थफान्ताद् वा (१।२। २३) कित्-कुन्थित्वा, कुथित्वा । क्रयादौ कुन्य संश्लेषणे (तु०६। ४६) कुथ्नाति । पुन्थति । लुन्थति । मन्थति, मथ्यते, मथितम्, मन्थित्वा, मथित्वा । मन्थः (उ० ४.११) इनिः किच्च-मथिन् मन्थाः। अचि-मन्थः । उणादौ मन्थाणः, शानच्च । ज्वलादौ मथे विलोडने (११५८७) मथति, मथः, माथः । क्रयादौ मन्थ, विलोडने (९४४) मथ्नाति, मथ्यते । मथिमाथीत्यपीति दौर्गाः'-मन्थति, मन्थ्यते; मान्थति, मान्थ्यते ॥४१-४४॥
३८. षिधु' गत्याम् । सेधति, सिषेध। परिसेधति गाम्, गमयतीत्यर्थः। सेधतेर्गतौ (८।३।११३) इति षत्वं नास्ति, अन्यत्र निषेधति पापात् । उपसर्गात् सुनोति-सुवति (८३५) इति षत्वम्, सेधतिनिर्देशात् सिध्यतेर (धा० सू० ४।८१) नास्ति-निसिध्यति । उदितो
वा (७।२।५६ ) इति क्तवो वेट सिद्ध्वा, सिधित्वा, सेधित्वा, रलो १५ व्युपधात् (१।२।२६) इति वा कित्त्वम् । यस्य विभाषा (७।२।६१५)
इति निष्ठायां नेट-सिद्धः, निरनुबन्धपाठे तु सिधितः । रलो व्युपधाद् (१।२।२।६)इति वा कित्त्वम्-सिसिधिषति सिसेधिषति।।४।।
काश्यपावपेक्ष्यौ' इत्याह (धा. वृ० पृष्ठ ४८) । दन्त्यादित्वे धुडागमस्तु न
प्राप्नोति श्चुत्वं धुट्त्वे सिद्ध वक्तव्यम्' (८।२।६ वा०) इत्युक्तत्वात् । २० १. सायणादय: 'मन्थ विलोडने' इति स्वतन्त्रं सूत्रं पठन्ति, प्रत्र च मन्य स्थाने मथिम् । द्र० घा० वृ० पृष्ठ ४८ ।
२. 'मन्थानः' इति पाठोऽत्र युक्तः स्यात। स च 'सम्यानच् स्तुवः' (उ. २।८१) इत्यनेन विहित प्रानच् बाहुलकाद् द्रष्टव्यः ।
३. अमरटीकायामपि :मथ्नातीति मन्थान: शानच्' (पृष्ठ २१६) इत्याह २५ स्वामी। एतच्च भानुजिदीक्षितेन दूषितम् (अमर पृष्ठ ३२६) । शानच्प्रत्यये मुगभावे साधु । महाभारतादौ शानचि मुगभावो बहुत्रोपलभ्यते ।
४. पुरुपकारे (पृष्ठ ७७) धातुवृत्तौ (पृष्ठ ४८) च स्मृतोऽयं पाठः । ५. इममुदितपाठमुदाहृत्य दूषितवान् सायण: (धा० वृ० पृष्ठ ४६) । ६. स्मृतोऽयं पाठो धातुवृत्तो (पृष्ठ ४६)।