________________
भ्वादिगणः (१)
२३
सच - अतसी' । ऋतन्यजिवन्यजि (उ०४।२) इतीथिन् - अतिथिः । प्रज्यतिभ्यां (उ० ४।१३१) इतीण-आतिः पक्षी । पादे च (उ० ४। • ३२) पदातिः, पादस्य पदाज्यति' (तु० ६।३।५३) इति पत् । सातिभ्यां मनिन्मनिणौ च (तु० उ०४।१५३) इति मनिण-ग्रात्मा ॥३७ __३४. चिती संज्ञाने । संज्ञानं संवित्तिः । चेतति । श्वीदितो निष्ठा- ५ याम् (७।२।१४) इति नेट-चित्तम्। चितिः । रलो व्युपधाद्धलादेः संश्च (१।२।३६) इति वा कित्त्वम् -चितित्वा, चेतित्वा; चिचितिपति, चिचेतिषति । क्विपिचित । असुनि-चेतः (द्र० उ० ४। १८६) । अनुपसर्गाल्लिम्पविन्द (३।१११३८) इति णी शः - चेतयः । चरादौ चित संवेदने (१०।१४४) इत्यात्मनेपदी-चेतयते । चेतनम्, १० चेतना ।।३८॥ ___ ३५. च्युतिर् प्रासेचने । आसेचनमीषत्सेकः । च्योतति, च्योतिता । इरितो वा (३।१३५७) इति लुङि वाङ्-अच्युतत्, अच्योतीत् । च्युतित्वा च्योतित्वा, चिच्युतिषति चिच्योतिषति ॥३६।। ____ ३६.- ३च्युतिर क्षरणे । क्षरणं स्रवणम् । शस्तालव्योऽत्र, दन्त्या- १५ दित्वे हि-षट्श्च्योतन्तीति श्चुत्वस्या सिद्धत्वाड़ ड: सि धुट (८।३। २६) इति धुडागमः स्यात्" । द्रमिडाश्चुतिरित्यप्याहुः-चोतति, अचुतत्, अचोतीत । कौशिकस्तु श्चुतिमयोपधं मन्यते-श्चोतति, ॥४०॥
१. अमरटीकायां स्वामिना 'न तस्यते अतसी' इत्येवमभिहितम् (पृ० १४३)। २. पादस्य पदाज्याति' इत्येवं काशिकादिषु पाठः ।
२० ३. श्वेत-दशपाद्याधुणादिषु चकारो न पठ्यते । ४. 'चित्ति:' पाठे क्तिनिष्ठावद् वक्तव्यम्' इतीडभावो द्रष्टव्यः । ५. 'सम्पदादिभ्यः क्विप्' (३।३।१०८) इति वात्तिकेन । ६. 'णो' क्वचिन्नास्ति । ७. चुरादी ‘संचेतने' इति पठ्यते ।
८. ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद् वाक्य- २५ स्मरणयोरङित् ॥ इति महाभाष्ये ॥१॥१४॥
६. विकल्पेन कित्त्वं 'रलो व्युपधात०' (१।२।२६) सूत्रण द्रष्टव्यम् । १०. 'शस्तालव्यो ..... स्यात्' पाठः प्रक्रियाकौमुद्यामुद्धृतः (पृष्ठ १२)। पत्र सायण:-'अत एव वृत्तिकारादिविरोधात् तालव्योष्मादिवादिनौ स्वामि