________________
क्षीरतरङ्गिण्यां
(द्र० ३।१।२६) आह्लादितः । श्वोदितो निष्ठायाम् (७।२।१४) नेट्, निष्ठायां ह्लादो ह्रस्वः (द्र० ६।४।९५)प्रह्लनः । क्तिनि अपीष्यते'प्रहृत्तिः ॥२६॥
२४ स्वाद प्रास्वादने । स्वादते । स्वादनः ॥२७॥
२५. पर्द कुत्सिते शब्दे' । पायुध्वनौ वर्ततेऽयम् । अन्ये निश्शब्दमधोवातं मन्वाना अशब्द इत्याहः। पदते। पर्दनः । पर्देनित् प्रसारणमल्लोपश्च (उ० ३।८०) इति पृदाकुः सर्पः॥२८॥
२६. यती प्रयत्ने । यतते। यतित्वा। ईदित्वाच्छ वीदितो निष्ठायाम (७।२।१४) इतीण नास्ति-यत्तः । यजयाचयतविछ (३।३। १० ६०) इति नङ्-यत्नः । यतेवद्धिश्च (उ० २१९७) इत्यन-याता
देवरभार्या, यातरौ । चुरादौ यत निकारोपस्कारयोः (१०।२०३) यातयति ॥२६॥
२७. यतृ जतृ भासने । योतते, अयुयोतत् । कौशिकस्तु ज्योतिःसिद्धये जुति ज्युति मन्यते, ज्योतिश्च द्य तेरिसिजादेश्च १५ १. 'ह्लाद इति योगविभाग: क्रियते, क्तिन्यपि यथा स्यात्, प्रह्लत्तिः' काशिका (६।४।९५) प्रत्रालोच्या।
२. किमर्थमयं संयोगान्तेषु उर्दादिषु न पठितस्तदाह सायणः -'संयोगान्तेषु उर्दादिष्वयं न पठित: शब्दविशेषार्थेन द्राद्या (? ह्रादा) दिनापि साम्यात् । स्वादिस्त्वाकारवत् संयोगादित्वेन ह्रादाद्यनुरोधेन मध्ये पठित:, (धा० वृ० पृष्ठ ४५) । एवमनेकत्र धातुपाठक्रमविषये सायणेनोहः कृतः, स तत्रवानुसन्धेयः, उदाहरणार्थमत्र सायणपाठ उपन्यस्तः।
३. प्रसारणशब्दोऽयं सम्प्रसारणशब्देन समानार्थकः । ४ काशिकादिषु ' विच्छ' इति पाठः।
५. दीर्घाभावं दर्शयितुमस्योपन्यासः। तथा च स्मृतिः-'पिता माता २५ नानान्दा ना सव्येष्ठूभ्रातृयातरः। जामाता दुहिता देवा न तृजन्ता इमे तृनन्त दश।
६. अमरटीकायां (पृष्ठ ३२८) क्षी स्वामिना "ज्योतते ज्योति:" इत्युक्तम् । वस्तुतस्तु द्युतिरिव ज्युतिरपि स्वतन्त्रो धातुः । तस्य शतपथे (१३५॥३॥ १) प्रवज्योत्यमानम्', कात्यायनश्रौत्रसूत्रे (४११४१५) च 'मवज्योत्य' इति
२०