SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः(१) . १६ १६. उर्द माने क्रीडायाञ्च । मितिर्मान'मिति मुख्योऽर्थः । चकारादास्वादनेऽपीति दुर्गः । ऊर्दते, र्वोरुपधाया दीर्घ इकः, हलि च (८।२।७६-७७) इति दीर्घः ॥२०॥ २०. कुर्द गुर्द गुद क्रीडायामेव । क्रीडानियमोऽत्र धातूनामनेकार्थत्वे लिङ्गम् । कूदते । स्फूर्जेर् (धा. सू० १।१४४) दीर्घोपदेशाद् र्वोरुप- ५ धाया दीर्घमनित्य माहुः3-कुर्दते, कुर्दनः । गुर्दनः । गुर्दस्थाने दौर्गाः खुर्द पेठः । गुदस्थाने गुधेत्येके । उपाध्यायास्तु गुदक्रीडायां पायुविहार एव द्वौ धातू इति व्याख्यन्, तन्ने ति सभ्या. । गोदते-जुगुदिपते, जुगोदिषते । के (द्र० ३।१।१३५) गुदम् ।।२१- २३।। २१. कूद क्षरणे । क्षरणं निरसनम् । सूदते । निसूदितः । चुरादौ १० षद निःस्रावणे (तु० १०॥१८६) निसूदयति । नन्द्यादौ (द्र० ३१॥ १३४) सूदनः। पचादौ सूदट्-(द्र० ३।१।१३४) सूदः,सूदी। सूददीपदीक्षां च (तु० ३।२।१३५) इति युज् नास्ति- सूदिता ॥२४॥ २२. ह्राद अव्यक्ते शब्दे । अव्यक्तेऽनतिस्फुटवणे। हादते दुन्दुभिः, नपुरह्रादः । पृषोदरादित्वाद् (द्र० ६।३।१०६) ह्रस्वे कृते १५ ह्रदः ॥२५॥ २३. लादी सुखे च । चशब्दादव्यक्ते शब्दे च । ह्लादते । णिचि - १. इह मानं सुखमिति सम्मतायाम् इति धातुवृत्तिः (पृष्ठ ४४) । २. अयं भाव: 'क्रीडायाम्' इति गौण: क्वाचित्को वा। पत्र 'गाधृ' (१॥ ५.) धातोर्वृत्तिस्तत्रस्था टिप्पणी (२) च द्रष्टव्या (पृष्ठ १४)। ___३. अयंभाव:-'उपधायां च (८१२।७८) इत्यनेन 'स्फुर्जा' इति ह्रस्वपाठेऽपि दीर्घत्व सिद्धयत्येव, कि दीर्घोपदेशेन । अतस्तद् व्यथं सद् 'वोरुपघाया:' इति दीर्घत्वस्यानित्यतां ज्ञापयति । काशिकायां गौरादिगणे (४।११४१) 'कुर्द' 'गर्द' इति शब्दी पठ्यते। तत्र 'कुर्द' इत्यत्र दीर्घत्वाभावः, 'गर्द' इत्यत्र च दीर्घत्वमेवेति ज्ञाप्यते । ४. 'कुर्दस्याने' पाठा०। ५. 'तन्नेति सभ्या:' इति क्वचिन्न । ... ६. 'निरासे' पाठा० । चुरांदी 'षूद प्रास्रवणे' (१०।१६३) इति पाठ उपलभ्यते । ७. पाचक इत्यर्थः । ८. 'सूददीपदीक्षश्च' इति काशिकादिषु पाठः । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy