________________
. क्षीरतरङ्गिण्यां मोदयति' मोदकः । इषितिमिमदिमुदि (द० उ० ८।२६ क) इति किरच-मुदिरो मेघः। मुदिनोर्गग्गौ (उ० १११२८) मुद्गः । स्फायितञ्चि (उ० २।१३) इति रक्- मुद्रा। चुरादौ मुद संसर्गे (१०। २०६) मोदयति ॥१६॥
१७. दद दाने । ददते, ददेते, ददन्ते । ददिता, ददितुम । न शसदद-वादि-गणिनाम् (तु० ६।४।१२६) इति लिटि एत्वाभ्यासलोपौ न स्तः-दददे ॥१७॥
१८. ष्वद स्वर्द प्रास्वादने । प्रास्वादनं जिह्वया लेहः। चैत्राय स्वदते । षोपदेशत्वाद् इण्कोः, प्रादेशप्रत्यययोः (८।३।५७-५६) इति षत्वम् - असिष्वदत् । स्तौतिण्योरेव षणि (द्र० ८।३।६१) इति नियमात् षत्वं नास्ति-सिस्वदिषते, सिस्वादयिषतीति । सः स्विदि. स्वदिसहीनां च (८।३।६२) षत्वाभावः । स्वदनः । कृवापाजिमिस्वदोत्यादिना (द्र० उ० १११) उण्-स्वादुः । चुरादौ प्वद संवरणे
(१०।२२८) स्वादयति । स्वर्दोऽषोपदेशः, यत् स्मृति -प्रज्वन्त्य. १५ पराः सादयः षोपदेशाः स्मि-स्विदि-स्वञ्जि-स्वपयश्च, सपि सजि-स्तस्तृ-स्त्या-सेक-सुवर्जम् ( तु० भा० ६।१।६४ ) स्वदंते, असस्वर्दत्
॥१८,१९॥
१. 'मोदयते' पाठा० ।
२. काशिकादिषु 'न शसददवादिगुणानाम्' इति पाठः। तत्र गुणशब्देन २० भावितोऽकारो लक्षणया गृहयते । स्वामिधृते 'गुणिनाम्' इति पाठे गुणः=गुण
शब्दो विधायकत्वेनास्यास्ति इति मन्वर्थीये इनि प्रत्यये शक्त्यैव सोऽर्थो लभ्यते । स्वामिधृतः पाठोऽन्यत्र न क्वचिदुपलब्धः । अत्र तत्त्वबोधिनी द्रष्टव्या (सि० को० भा० ३ पृ० १६९) ।
३ "संवरणे" इति क्षीरस्वामी इति धातुवृत्तौ (पृ० ४३) माधव:' । २५ तथैव पुरुषकारोऽपि (पृष्ठ ४४) ।
४. स्मृतिपदेनात्र भाष्यमभिधीयते । तत्र चायं पाठ:-'अज्दन्त्यपरा: सादयः षोपदेशा: स्मिङ्-स्वदि-स्विदि-स्वञ्जि-स्वपयश्च, सृपि-सजि-स्तृ-स्त्या. सेक-सुवर्जम (६११६६४) । अज्दन्त्यो सात् परौ येषां ते सकारादयः सर्वे षोपदेशा इत्यर्थः (उद्योत)।