________________
भ्वादिगणः (१) १३. मदि स्तुति-मोद-मद-स्वप्न-गतिषु । मोदो हर्षः, मदो दर्पः, स्वप्नेनालस्यमपि लक्ष्यते। चन्द्रस्तु मदि जाड्य' (११३१५) इत्ये. वाह । मन्दते । मन्दिता । मन्दः । मन्दिवाशिमथि (उ० ११३८) इत्युरच- मन्दुरा वाजिशाला । इषितिमिमदि (दश० उ० ८।२६ 'क' पाठः) इति किरच-मन्दिरम् । स्फायितञ्चिवञ्चि (उ० २।१३) ५ इति रक-मन्द्रः। मद्रो माद्यतेः' (द्र० उ०४।१०२) मदिरा च । प्रङ्गिमदिमन्दिभ्य पारन् (उ० ३।१३४) मन्दारः । कृदरादयश्च (उ० ५।४१) इति मन्दरः । खजेर् प्राक: (उ० ४।१३) इति बाहुलकादाक:-मन्दाकः । मत्वर्थीये चेनौ (द्र० ५।२।११५)-मन्दाकिनी ॥१३॥
१४. स्पदि किञ्चिच्चलने । स्पन्दते, स्पन्दिता । स्पन्दितुम , स्पन्दनः, स्पन्दः ॥१४॥
१५. क्लिदि परिदेवने । परिदेवनं शोचनम् । क्लिन्दते । उदात्तेत्सु पाठात् (धा० स० ११५८) क्लिन्दति । स्वरितेत्सु नोक्तः, कत्रभिप्रायेऽपि परस्म पदार्थः ॥१५॥
१६. मुद हर्षे । मोदते, मोदिता । रलो व्युपधाद हलादेः संश्च (१॥ २।२६) इति विभाषा कित्त्वाद् मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते । मोदनः । इगुपधज्ञाप्रीकिरः कः (३।१११३५) कुमुदम ६ ।
२०
अस्य
वर्षप्राचीने शतपथब्राह्मणे (१४।७।१।२२) तस्य प्रयोगदर्शनात् ।
१. तुलनीया अमरक्षीरटीका पृष्ठ ४८ ।।
२. अमरटीकायां (पृष्ठ १०१) 'मन्दानियत्ति मन्दार:, मन्दा पारा प्रस्येति वा' इत्युक्तं स्वामिना ।
३. 'मन्दर: सरिभः शक्रभवनं खं दिवं नभः' इति त्रिकाण्डशेषः ।
४. अमरटीकायां (पृष्ठ १०१) 'मन्दमकति अवश्यम्' इति निरवोचत् स्वामी।.
५. अयं भाव:- ये खलु धातवः स्वरितेतः (यथा पचादयः), ते कर्बभिप्राय आत्मनेपदिनो भवन्ति । अयं तु अनुदात्तेत्सु चोभयत्र पठित । तेनानुदात्तत्वाद् प्रकर्षभिप्रायेऽप्यात्मनेपदं भवति, उदात्तत्वाच्च कर्बभिप्रायेऽपि परस्मैपदम् ।
६, को पृथिव्यां मोदत उति कुमुदम् ।
२५