SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां . स्कुदि प्राप्रवणे । आप्रवणम् उत्प्लुत्य गमनम्, प्रास्कन्दनं' वा'। उद्धरणमिति तु श्रीभोजः । इदितो नुम् धातोः (७।१३५८)स्कुन्दते । सलोपे कुन्दम् (द्र० उ० ४।६८) ॥६॥ १०. शिवदि श्वत्ये। श्वेतगुणक्रियायाम । श्विन्दते प्रासादः। ५ श्वेतगुणः सिद्धोऽपि पाख्यातेन साध्यैकरूप उच्यते, कृता तु साध्योऽपि धात्वर्थः सिद्धतया पाकादिवत्, शब्दशक्तिस्वाभाव्यात् ॥१०॥ ११. वदि अभिवादनस्तुत्योः । गुरून् वन्दन्ते-अभिवादयते । देवान् वन्दते-स्तौति । वन्दिता। वन्दनः। शृवन्द्योरारुः (३।२। १७३)-वन्दारुः । वन्दी मङ्क: णिनिः । अचि (द्र० ३।१११३४) तु १० वन्दी हठहता स्त्री । घट्टिवन्दिविदिभ्य उपसंख्यानात् (द्र० ३।३। १०७ वा०) युच-वन्दना । उणादौ वन्दाकः कामवृक्षः ॥११॥ १२. भदि कल्याणे सुखे च। कल्याणं श्रेयो मङ्गलादि, सुखम आत्मगुणोदयः । भन्दते । भन्दिता । भदन्तः श्रमणः । चुरादौ (१०। ७०) भन्दयति ॥१२॥ १. 'प्राप्लवनम्' पाठा०। २. प्राप्रवणमुत्प्लवनमुत्प्लुत्यगमनं वेति तरङ्गिणी इति धातुवृत्तौ (पृष्ठ ४१) उद्धृतः पाठः। ___३. 'अमरटीकायां (पृष्ठ ६६) कुन्दति कुन्दम्' इत्युक्तं स्वामिना। ४. 'श्विदि श्वत्ये' इत्युक्तम्, तत्र श्वैत्यस्य गुणत्वादक्रियात्वेन धावा२. भावात् लक्षणया श्वेतगुणक्रिया लक्ष्यते । श्विन्दते प्रासादः, श्वेतो भवतीत्यर्थः । ५. 'साध्यैक्यम्' पाठा० । ६ "वितालशब्द: प्रयोजनमेषां वैतालिका राजोऽवसरपाठा मङ्गला [?, मङ्खा] ख्या:, प्रातर्बोधका इत्ये के' इत्यमरटीकायाः (पृष्ठ १९५) क्षीरस्वामी सर्वत्र स्वामीपदेन क्षीरस्वाम्येव ज्ञेयः ।। २५ ७. 'वन्यते याच्यते वन्दी हठाहृता स्त्री' इत्यमरटीकायां (पृष्ठ १६६) क्षीरस्वामी। ८. उणादौ 'पाक' प्रत्ययः दृश्यते (उ० ४।१३), तेनेदं पदं सिध्यतीति स्वामिनोऽभिप्राय: । वन्दाकश्चीवरभिक्षुरिति हेमचन्द्रः (उणादिटीका ३४) । . भन्देर्नलोश्च (उ० ३।१३०) इत्यनेन । प्रवजिताथंक इत्युज्ज्वलः । ३० श्रमण शन्नो बौद्ध भिक्षुवाचक इत्येके मन्यन्ते । तदसत्, बुद्धप्रादुर्भाव दुपद्विसहस्र
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy