________________
भ्वादिगणः (१)
अन्यत्र नृपं नाथति, याजते। रिपं नाथति, स्वामी नाथति, ईष्टे । नाथोऽचि (द्र० ३।१।१३४) । नाथ' इत्यनुपसर्गस्य नियमान्ने हा. त्मनेपदम
एतन्मन्दविपक्वतिन्दुरुफलश्यामोदरापाण्डुरच्छायं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । ५ तत् पल्लीपतिपुत्रिकुञ्जरकुलं जीवाभयाभ्यर्थना
दीनं त्वामनुनाथते कुचयुगं पत्रांशुकर्मा पिधाः ॥ नोपदेशावैतौ । यथाः-सर्वे नादयो णोपदेशाः, नृति-नन्दि-नदिनक्कि नटि-नाध-नाथ नवर्जम् (तु० महाभाष्यः ६।१।६५) इति । उपसर्गादसमासेऽपि णोपदेशस्य (८।४।१४) इति णत्वं नास्ति- १० प्रनाथते । अननाथत् ॥६,७॥
७. दध धारणे। दधते, दधेते, दधन्ते । यङलुकि-दादधीति, दादद्धि । दधस्तथोश्च (८।२।३८) इति भष्माको नास्तिः, तत्र हि धागो ग्रहणम् । कौशिकस्तु दद धारणे दघ दाने इति पाठं व्यत्यास्थात् । ददते मणिम्, दधते धनमर्थिभ्य इति । युक्तायुक्तत्वे त्वत्र १५ सूरयः प्रमाणम् । वयं हि मतभेप्रदर्शनमात्रेणैव कृतार्थाः, मुनिमुख्यानां वाक्यं कथंकारं विकल्पयामः, वयमपि हि स्खलन्तोऽन्यः कियन नोपलप्स्यामहे ॥८॥ . . .. १. आशिषि नाथ इत्यात्मनेपदविधायके वात्तिके ।
२. पाठोऽत्र भ्रष्ट इति प्रतिभाति । अत्र शुद्ध: पाठ एवमूहनीय, - 'नाथ २० इत्यनुपसर्गस्य नियमान्नेहात्मनेपदप्रतिषेधः' इति । ___ का प्रकाश त्वग्रिमश्लोकः च्युतसंस्कृतिदोष उदाहृत्य "अत्रानुनाथत इति सर्पिषो नाथते इत्यादावाशिष्येव नाथतेरात्मनेपदं विहितम् 'आशिषि नाथः' इति । अत्र तु याचनमस्तस्मात् 'अनुनाथति स्तनयुगम्' इति पठनीयम्" इत्यु. क्तम् (द्र० उल्लास ७) । प्रत्र क्षीरस्वामिनो वचनं युक्तम्, न मम्मटस्य । २५
३. 'वर्तते' पाठा०। ४. अनुपलब्धमूलमिदम् । 'काव्यप्रकाशे (उल्लास ७) उद्धृतः । तत्र स्वल्प: पाठभेदः ।
५. निरुक्ते (२।२) 'दण्डो ददतेर्धारयतिकर्मणः' इत्युक्तम् । एतेन कौशिक. पाठ एव ज्यायान् इति लक्ष्यते ।
६. द्र० 'अक्रू रो ददते मणिम्' इति निरुक्तपाठः (२२) ।