________________
क्षिरतरङ्गिण्या
___५. गाई प्रतिष्ठालिप्सयोर्ग्रन्थे च । प्रतिष्ठा प्रास्पदम् । लब्धुमिच्छा लिप्सा । ग्रन्थनं' ग्रन्थः । अस्य पृथक्पाठो विरलप्रयोगार्थः । गाधते । गाधिता। ऋदित्त्वात् नाग्लोपिशास्वृदिताम् (७।४।२) इति णौ चङि उपधाह्नस्वो नास्ति-अजगाधत् । प्रजगाधम् प्रतलस्पर्शम् ॥४॥
६. बाध रोटने । रोटनं प्रतिघात । बाधते । बाधिता। अबबाधत् । बाधनः। गुरोश्च हलः (३।३।१०३) इत्यप्रत्यये बाधा । बाधस्तु अचि (द्र० ३।१।१२४) । अजिशिकम्यमिपंसिबाधाम् (उ० १।२७) इति कुः हत्वं च, बाहुः ॥५॥
७ ना नाथ याच्योपतापश्वर्याशीःषु । उपताप उपघातः । यानोपतापयोरित्यर्थयोः क्रियात्वात् ऐश्वर्याशिषोस्तु द्योत्ययोर्धर्म- . मात्राभिधानात् । यथा घण्टा ध्वनति, श्वेतते प्रासादः, संयुज्यते, समवैति, अस्ति, गण्डतीति गुण-संयोग-समवाय-सत्ता-द्रव्याणि
सिद्धानि पाख्यातेन साध्यत्वेन प्रतीयन्ते । पूर्वापरीभूतं भावमाख्याते? नाचष्टे' (निरुक्त १६१) इति । नाधते । अननाधत् । तथा नाथते । १५ प्राशिषि नाथ इत्युपसंख्यानात् (१।३।२१ वा०) आत्मनेपदम्, षष्ठी च सूत्रात् (२।३।५५)-सर्पिषो नाथते-सर्पिर्मे भूयादित्याशास्ते ।
१. 'ग्रथनम्' पाठा।
२. पुरुषकारे (पृष्ठ २०) त्विमं पाठमुद्धृत्य "व्यभिचरति चैतत् 'पूयी विशरणे दुर्गन्धे च' इत्यत्र" इत्येवं दूषितः । वयं तु पृथग्विभक्तिनिर्देशेनानुमिनुमो यदत्र कदाचित् 'प्रतिष्ठालिप्सयो:' इत्येव मूलपाठ प्रासीत् 'ग्रन्थे च' इत्य. यमंश: पश्चात्तनैर्वर्धितः । यथा क्वचित् धातुपाठकोशेषु 'डुवप बीजसन्ताने' इत्यस्य स्थाने 'डुवप बीजसन्ताने छेदने च' इति दृश्यते । तुलनीयम्-यथा वपि: प्रकिरणे दृष्टः, छेदने चापि दृश्यते' (महाभाष्य १।३।१)।
३. अमरकोश कां० १, वारिवर्ग, श्लोक १५। ४ 'प्रतीघात:' पाठा । २५ ५. अमरटीकायां (पृष्ठ १५१) क्षीरस्वामिना 'बहति बहते प्रयतते वा बाहुः, बाह प्रयत्ने' इत्युक्तम् ।।
६. उपताप रोग इति वृत्ती, उपघात इति तरङ्गिण्याम् (मा० धा० पृष्ठ ३७)।
७. अयं भाव:-प्राशिषि नाथः' इत्यानुपूर्विकमुपसंख्यानं सूत्रं च द्वयमपि ३० वर्तते । तत्रोपसंख्यानादात्मनेपदम्, सूत्राच्च षष्ठी विधीयते।