________________
स्वादिगण: (१)
१३
धमानः । एधिता । एत्येधन्यूट्सु ( ६ |१| ८६ ) इत्युपसर्गस्य एङि पररूपं नास्ति - प्रधते । मा भवान् इदिधत् इति परत्वाद् ह्रस्वे कृते पुनःप्रसङ्गविज्ञानाद् द्विर्वचनम् । सुन्प्रत्यये ( द्र० उ० ४।१८८ ) एधः इन्धनम् । यथैधांसि समिद्धोऽग्निः ' ( गीता ४।३७ ) इति । श्रवो- ५ हिमश्रथाः (६।४ / २६ ) इतीन्धेत्रि निपातनाद् प्रदन्तोऽपि एधोऽस्ति' । गुरोश्च हलः ( ३।३।१०३ ) इत्यप्रत्ययः - एधा ॥ २ ॥
४. स्पर्ध सङ्घर्षे । संघर्षः पराभिभवेच्छा । स्पर्धते भ्रातुः - भ्रात्रा सह स्पर्धा करोतीत्यर्थः । स्पर्धमानः । स्पर्धिता । स्पर्धमानः स कृष्णम इति तु कृष्णं प्राप्येत्यध्याहारात् । श्रणावकर्मकात् (१।३।८८) इति १० णेः परस्मैपदम् - स्पर्धयति । यङ्लुकि - लङीट्पक्षे ( द्र० ७ । ३ । ९४ ) अपास्पर्धीत्, प्रनिटि अपास्पत् । रात् सस्य ( ८२२४ ) इति नियमात् संयोगान्तलोपाभावः । सिपि तु - सिपः हल्याब्भ्यः ( ६ |१| ६८) इति लोपे प्रत्ययलक्षणेन जश्त्वे, सिपि धातोरुर्वा, दश्च ( ८|२| ७४-७५ ) इति रुत्वपक्षे रोरि (८|३|१४) लोपे दीर्घे ( द्र० ६ | ३ | १५ १११) च प्रपास्पा इति रूपम्, अरुत्वपक्षे तु तिबन्तवत् । श्रनुदात्तेतश्च हलादे: ( ३।२।१४६ ) इति युच् - स्पर्धनः । गुरोश्च हलः (३ | ३|१०३) इत्यप्रत्ययः - स्पर्धा । बाहुलका दिष्णुच् " मेहं स्पधिष्णुनवान्यो धृतो नाको हिमाद्रिणा ॥ ३ ॥
१. 'यथैधः सुसमिद्धोऽग्निः' पाठा० । चिन्त्यमिदं मूल ग्रन्थविरोधात् ।
२. इत्थमेवादन्त मेघ पदममरटीकायाम् (पृष्ठ ८२ ) अपि साधितवान् स्वामी । भानुजिदीक्षितस्तु 'एधधातोरेव हलश्चेत्यनेन घञि निरवोचत् । श्रयमदन्तः पु ंसि । उदाहृतं च मुकुटेन - " एवान् हुताशनवत इति कालिदासः " इति ।
२०
३. पराभिभवस्य धात्वर्थेनोपसंग्रहाद् प्रकर्मकत्वम् । 'धात्वर्थेनोपसंग्रहात्' २५ इत्युक्तत्वात् ( द्र० पृष्ठ ५ पं० १४ ) ।
४. कृष्णमिति न स्पर्धेः कर्म, श्रपि तु प्रापेरिति भावः ।
५. प्रयं भावः - यद्यपि स्पधंधातो: 'इष्णुच् ' साक्षान्न विहितस्तथापि कृतो बहुलम्' (३|३|११३ वा० ) इति वचनात् समाधेयः । जयादित्यस्तु 'भुवश्च' ( ३।२।१३८ ) इत्यत्र 'चकारो ऽनुक्तसमुच्चयार्थः - भ्राजिष्णुना लोहितचन्दनेन' इत्युक्तवान् । ६. अनुपलब्धमूलमिदम् । ३०