________________
क्षीरतङ्गिण्यां
विप्रसम्भ्यो वसंज्ञायाम् ( ३।२।१८० ) विभुः प्रभुः, संभुः । मितवादित्वात् ( द्र० ३।२।१८० वा० ) शम्भुः । ऋदोरप् ( ३।३।५७) प्रभवः, विभवः, अनुभवः । श्रणीभुवोऽनुपसर्गे ( ३।३।२४) घञ् - भावः । नद्यप्रभावादिति प्रभावः' । परौ भुवोऽवज्ञाने ( ३।३।५५) वा घञ् - परिभाव:, परिभवः । कर्तृकर्मणोश्च भूकृञोः (३।३।१२७) च्व्यर्थयोः खल् –अकृच्छेणानाढ्य `नाढ्य ेन भूयते स्वाढ्यं भवं भवता । स्वाङ्ग तस्प्रत्यये कृभ्वोः ( ३।४।६१ ) क्त्वाणमुलौ - पाश्वतोभूयास्ते. पार्श्वतोभूत्वा, पार्श्वतोभावम् । नाधार्थप्रत्यये च्व्यर्थे ( ३।४।६२) नानाभूयास्ते, नानाभूत्वा नानाभावम् द्विधाभूयास्ते, द्विधाभूत्वा द्विधा१० भावम् । तूष्णीमि भुव: ( ३।४।६३) अतूष्णींभूयास्ते, तूष्णींभूत्वा, तूष्णींभावम् । श्रन्वच्यानुलोम्ये ( ३।४।१४ ) अन्यग्भूयास्ते, अन्वग्भूत्वा अन्वग्भावम् ।
५
१५
२०
१२
३०
निरूढादयो यथा - भवत्यस्यां सर्वमिति भू । भूतिः भस्म । भूताः ग्रहाः । भवत्यस्मिन् भवनं गृहम् ।
कृत्परिशिष्टेऽपि ' - भविष्यति गम्यादयः ( ३।३।३) भावी भुवः क्मिन् (दश० उ० १११६ कपाठः) भूमिः । श्रदिशदिभूशुभिभ्यः क्रिन् ( उ० ४।६५) भूरिः । श्रदि भुवो डुतच् ( उ० ५। १) अद्भुतम् । भुवः क्युन्* (तु० उ० २२८१) भुवनम् ।। १ ।।
1
[ श्रथ सेट श्रामनेपदिनः ]
३. एध वृद्धौ । इतः कत्थान्ता: ( ११३१) पञ्चत्रिंशद् उदात्ता अनुदात्तेतश्च । तेनायम् एकारस्योदात्तत्त्वात् सेट्, अकारस्य चानुदात्तत्वाद् श्रनुदात्तङित श्रात्मनेपदम् (१।३।१२ ) इत्यात्मनेपदी । एधते ।
१. श्रविस्पष्टमिदं वाक्यम् । प्रत्र पाठान्तरमपि नोपलभ्यते । श्रत्र कदाचित् 'नत्र प्रभवादिति प्रभाव:' इति सम्यक् पाठः स्यात् । तथा सत्यममर्थः - हि यतः सूत्रे 'अनुपसर्गे' इत्युपात्तं ततश्चात्र प्रपूर्वकाद् भवतेनं प्रभावशब्दोऽपि तु प्रकृष्टो भावः प्रभाव इति प्रादिसमासे भवति ।
२५
२. श्रत एव भूतावेशग्रहावेशशब्दो पर्यायवाचिनो दृश्येते ।
३. कृत्परिशिष्टशब्देनात्रोणादिपाठो लक्ष्यते । उणादयो बहुलम् ( ३|३|१) इत्यस्यैव व्याख्यानभूतत्वादुणादिपाठस्य । पूर्वनिर्दिष्टा निरूढास्त्वष्टाध्यायिस्था: । ४. नेदं सूत्रस्वरूपम्, अपि तु प्रकृतिप्रत्ययनिर्देशमात्रम् ।