________________
भ्वादिगणः (१)
११
भुवो भावे (३।१।१०७, क्यप्-ब्रह्मणो भवनं ब्रह्मभूयम् । भव्यगेय (३।४।६८) इति कर्तरि-भव्यः पुमान् । भावकर्मणोरचो यत् (३।१।६७) भव्यं त्वया, अनुभव्यं सुखम् । अोरावश्यके (३॥१॥ १२५) ण्यत् -भाव्यम्, अवश्यभाव्यम् । लुम्पेदवश्यमः कृत्ये' (द्र० काशिका ६।१११४४) [मलोपः] । ग्रहादौ२ (३।१।१३४ गणे) ५ परिभावी; भूतेऽभिभावी । भवतेो वा वक्तव्यः' (द्र० काशिका ३।१।१४३) भवतीति भावः, भवः । प्राशिते भुवः करणभावयोः (३॥२॥ ४५)खच्-प्राशितो भवत्यनेनेति प्राशितंभव प्रोदनः, पाशितस्य भव. नम् प्राशितंभवो वर्तते । कर्तरि भवः खिष्णुच्खुकसौ(३।२१५७) माढयादिषु कर्तृषु व्यर्थेष्वच्वौ-अनाढ्य पाढयो भवति आढय भविष्णः, १० प्राढ्य भावुकः । भुवश्च (३।२।१३८) इतीष्णुच्, छान्दसत्वं नेष्टम् भविष्णुः । ग्लाजिस्थश्च गस्नुः (३।२।१३६) भूष्णुः; किति च (१।१। ५) इत्यत्र गकारस्य चर्वभतत्वाद् गुणाभावः। लषपतपद (३।२। १५४) इत्युकञ्-भावुक: । जिदक्षि (३।२।१५७) इतीनिः-परिभवी । भुवः संज्ञान्तरयोः (३।२।१७९) क्विप्- स्वयंभूः, प्रतिभूः। १५
१. भाष्ये वचनमिदमन्यथोपलभ्यते । भाष्योक्तानां त्रयाणां वात्तिकानां सग्रहात्मक: कश्चिच्छ्लोकोऽत्र काशिकायां पठ्यते। अत्र विशेष: 'संस्कृत व्याकरण शास्त्र का इतिहास' नामके ग्रन्थे (भाग १, पृ०३४६ सं०४)द्रष्टव्यः।
२. नन्दिग्राहसूत्रे नन्दीति णिचा निर्देशः, ग्रहीति इका। अत एव स्वामिना विस्पष्टप्रतिपत्तये 'ग्रहादी' इत्युक्तम् । नात्र सूत्रपाठभेद ऊहनीयः। २०
३. काशिकायां ग्रहादिगणे 'परिभावी परिभवी' इत्युभयं पठ्यते । तेन पक्षे वृद्धयभावो द्रष्टव्यः ।
४. 'अभिभावी भूते' इति ग्रहादी गणसूत्रं पठ्यते। - ५. वात्तिकमिदं भाष्ये नोपलभ्यते । पत्र 'ग्रहः ग्राहः' इति वद् व्यवस्थितविभाषा.द्रष्टव्या।
६. 'कवीनाम्' इत्यधिकं क्वचित। ____७. 'वस्नुः' पाठा० । 'स्नुः' इत्येव भाष्यसम्मतः पाठः। 'स्नुः' इत्यत्र गकारश्चर्वभूतो निर्दिश्यत इत्येव भाष्याभिप्राय इत्यन्ये ।।
८. अत्र 'स्नोगित्त्वान्न स्थ ईकार: ङ्कितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रय कोऽनिट्वं गकोरिति' (३।२०१३९ भाष्ये) इति श्लोकवात्तिकमनु- ३० संधेयम् ।