________________
क्षोरतरङ्गिण्यां परस्मैपदम्।
_ विशेषास्तु-भुवः प्रभवः (१।४।३१) अपादानम्-हिमवतो गङ्गा प्रभवति । गातिस्थाघुपा (२।४।७७) इति सिज्लुक् - अभूत्, भूसुवोस्तिडि (७।२।८८) गुणाभावः । भुवो वुग् लुलिटोः (६।४। ८८) प्रभूवन्, प्रात' (३।४।११०) एव सिज्लुगन्तानियमात् सिजभ्यस्तविदिभ्यश्च (३।४।१०६) इति झर्जुस नास्ति । बभूव बभूवुः-- इन्धिभवतिभ्यां च (१।२।६) इति कित्त्वम्, भवतेरः (७४।७३) इत्यभ्यासस्यात्वम् । भावकर्मणोरत्वं नेत्याहुः-बुभूवे त्वया, अनुबुभूवे सुखम् ।
भूशादिभ्यो भुव्यच्वेर् (३।१।१२) इति क्य--अभशो भृशो भवति भृशायते । आमः कृत्रमुप्रयुज्यते इति कृत्रः प्रत्याहारात् कृभ्वस्त्यनुप्रयोगः । कारयांबभूव । भाष्ये (४।१७८) 'चेक्रीयित' इति संज्ञा-'ङिति चेक्रीयते दोषः।' पत्र यङः पूर्वाचार्यसंज्ञेति कयटः। . १. अदादिगणे चर्करीतं च ( २।८४ ) इति पठ्यते । तेन यङलुकोऽदादित्वमात्रं विधीयते, न परस्मैपदत्वमपि। यद्यनेन परस्मैपदविधानमपि स्यात्तर्हि 'तेतिक्ते' (७।४।६५) इत्यत्र "तिजेर्यङ्लुगन्तस्यात्मनेपदं निपात्यते । नेतदस्ति प्रयोजनम् । सिद्धमत्रात्मनेपदमनुदात्तङित प्रात्मनेपदमिति । नियमार्थ
तहि भविष्यति । अत्रैव यङ्लुगन्तस्यात्मनेपदं भवति नान्यत्रेति । क्व मा भूत् ? २० बेभिदीति चेच्छिदीति" इति भाष्यकारवचनं प्रमत्तगीतं स्यात् । प्रायेण सर्व एव
धातुवृत्तिकारा 'चर्करीतं च' इत्यनेनादादित्वस्य परस्मैपदस्य च विधानं मन्वते ।
'.. २. अत्र जर्मनसंस्करणे 'प्रत एव' पाठ उपलभ्यते, स चापपाठः । अत्र - "पूर्वणव सिद्ध नियमाथं वचनम् । अत एव सिज्लुगन्तान्नान्यस्मादिति। प्रभूवन्
प्रत्ययलक्षणेन जुस्प्राप्तः प्रतिषिध्यते” इति "प्रात:" (३।४।११०) सूत्रस्थं २५ काशिकावचनमनुसन्धेयम् ।
३. मतमिदं माधवीयधातुवृत्ती प्रौढमनोरमायां च दूषितम् । वस्तुतस्तु 'भवतेर:' (७।४।७३) सूत्रे 'इविश्तपो धातुनिर्देशे' (३।३।१०८ वा०) इति वचनात् धातुमात्रं गृह्यते न कर्तृ विशिष्टम, बभूवे त्वया, अनुबभूवे सुखमित्येव
भवति । कयटादयोऽप्यत्रवानुकूला: । क्षीरस्वामी त्वत्र काशिकाकारमतमाश्रित. ३० वान् । ... ४. प्रत्र ३१११४० सूत्रस्थं भाष्यमनुसंधेयम् ।
५. 'प्रत्याहारस्यानुप्रयोगः' पाठा० । स चापपाठः।