________________
भ्वादिगणः (१)
नित्यं न भवनं' यस्य यस्य वा नित्यभूतता। न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ तेन भूतिषु कर्तृत्वं' प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः । [इति]
(तन्त्रवात्तिक २।१११ पृष्ठ ३७७,३७८ पूनासंस्क०) ५ भावयेज्ज्योतिरान्तरम्' इत्यनेकार्थत्वाद् घ्यायेदित्यर्थः ।
चुरादौ भू प्राप्तावात्मनेपदी (धा०सू० १०।२३२) भावयते पदम् प्राप्नोतीत्यर्थः । प्रा धृषाद् वा (धा० सू० १०।२०१) इत्यणिच्पक्षेउत्साहाद् भवते लक्ष्मीम् । भुवोऽवकल्कने (धा०सू० १० । १८५) णिच-सर्पिषा सक्तून् भावयति, मिश्रयतीत्यर्थः । ण्यासश्रन्थो युच् १० (३।३।१०७) भावना।
सन्-बुभूषति । अय कः किति (७।२।११) सनि ग्रहगुहोश्च (७/ २।१२) इति नेट् । सनाशंसभिक्षामुः (तु० ३।२।१६८) बुभूषुः ।
ण्यन्तात् सन्–बिभावयिषति । प्रोः पुयण्ज्यपरे (७।४।८०)इत्यभ्यासस्येत्वम् ।
यङ्-बोभूयते । ङित्त्वात् तङ्।। यङ्लुक्-बोभवीति, बोभोति । चर्करीतं (धा० सू० २ । ८४)
१. 'नित्यभवनम्' पाठा० ।
२. 'तेनैव भूतिकर्तृत्वम्' पाठा०, '० भावानाम्' पाठा० । अपपाठाविमी, मूलग्रन्थ (तन्त्रवात्तिके )ऽदर्शनात । ___३. प्रतिपन्नस्य कादाचित्कत्वेन प्रमितस्य भूतिषु भवनेषु भवनक्रियासु । तप्य प्रयोजकक्रियां भ वनामित्यन्वयः। ४. अनुपलब्धमूलम् ।
५. काशिकादिषु 'सनाशसभिक्ष उः' इति सूत्रपाठ उपलभ्यते । स्वामिना प्रायेण सूत्रेषु पञ्चमीस्थले षष्ठी पठ्यते । युक्तायुक्तत्वेऽत्र सूरयः प्रमाणम् ।
६. चर्करीतमिति यङ्लुक: प्राचां संज्ञा । यङ्लबन्तस्य चर्करीतं चर्करी- २५ तिश्च पूर्वेषां संज्ञा । क्रियारत्नसमुच्चय, पृष्ठ १९३ । चेक्रोडित इति यङन्तस्य प्राचां संज्ञा। भरतनाट्यशास्त्र १६६१२७ टीका (बड़ोदासंस्क०) । महा