________________
(क्षीरतरङ्गिण्यां " : 'भट्टशशाङ्कधरस्त्वत्रैवं गुरुमुष्टि समादिक्षित्, यदाह-द्विरूपो धात्वर्थः, भावः क्रिया च:। अत एव क्रिया भावो धातुः, (कातन्त्र ३।३।९) इत्यभियुक्तैख्यिातम् । तत्र'-अपरिस्पन्दमानसाधन
साध्यो भावः, सपरिस्पन्दमान साधनसाध्या क्रिया । अतो भावार्थो ५ धातुरकर्मकः, क्रियार्थो धातुः सकर्मकः । भावक्रिययोश्च पर्यायत्वमदूरविप्रकर्षण । धात्वर्थसामान्ययुक्तायुक्तत्वेऽत्र सूरयः प्रमाणम्। गतमेतत् । प्रकृतमनुसरामः।
स्याच्छदधा प्रकृतिर्ण्यन्ता सनन्ता णिचि सन्परा।
यङन्ता यङ्लुगन्ता च नातोऽन्या, निष्प्रयोजना ॥ १० शुद्धोदाहृता।
णिच-भवन्तं प्रयुङ्क्ते भावयति, करोतीत्यर्थः । यदाहुः
१. भट्टशशाङ्कधरविषये ऽस्मदीय: 'सं० व्या. शास्त्र का इतिहास' (भाग
२, पृष्ठ ४४६, ४४७, वि० सं० २०४१) नामा ग्रन्थो द्रष्टव्यः ।। .. २. 'अत्रव' पाठा० । १५ ३. तुलना कार्या-क्रियावचनो धातुः, भाववचनो धातुः (महाभाष्य १॥ ३१)।
४. यद्वात्रैवं वाक्यान्वयः-अत एव क्रिया भावो धातुः इति । अभि. युक्ताख्यातं तत्र-परिस्पन्दमान० ।। ५. 'स्पन्दन' पाठा० ।।
६. णिचि पूर्वस्मिन् सति सन् परो यस्यां सा प्रकृतिरित्यर्थः । २० ७. तुलना कार्या-'प्रकृत्यन्तः सन्नन्तश्च यङन्तो यङलुगेव च । ण्यन्तो
ण्यन्तः सन्नन्तश्च षडविधो धातुरुच्यते। निरुक्तवृत्ती (२०२८) दुर्गाचार्यणोद्धृतः।
८. शुद्ध त्यादिक्रमेण षोढा प्रकृतिः । अतोऽन्या न विद्यते। ननु णिचि सम्परेतिवत् यङि यङ्लुकि वा सन्परा, सनि वा णिच्परेति कथं नोक्ता: ? २५ उच्यते, प्रयोगाभावादन्या निष्प्रयोजना। अत एव 'लिटि धातोरनभ्यासस्य'
(अ०६।१८) सूत्रे भाष्यकृता 'अनभ्यासस्य' इति प्रत्याख्यातम् । अन्यथा यङन्ताद् यङ्लुगन्ताद्वा सनि, सनन्ताद्वा णिचि लुङि अनभ्यासस्येति ग्रहणाग्रहणे रूपभेद: स्यात् । भागवृत्तिकारस्तु यङन्ताद् यङ्लुगन्ताद्वा सनि पुनर्वित्वं मन्यते । अत्र विशेषस्तु अस्मदीये भागवृत्तिसंकलन एतत्सूत्रटिप्पण्या द्रष्टव्यः ।।