________________
भ्वादिगणः (१) अर्थान्तरे कार्यान्तरे वर्तनाद्' धातोः सकर्मकोऽपि धात्वर्थोऽकर्मक: क्रियते । यथा-भारं वहति, उद्यच्छतीत्यर्थः; नदी वहति, स्रवतीत्यर्थः । कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम्, यथा-जीव प्राणपारणे (घा० सू० ११३७५) जीवति; नृती गात्रविक्षेपे (धा० सू० ४।८) नृत्यति । अत्र प्राणगात्राख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते। ५ कर्मण: प्रसिद्धत्वादकर्मकत्वम्, यथा-देवो वर्षति; नेह-पार्थः शरान् वर्षति । प्रयोक्तुरविवक्षितत्वात् कर्मणः सकर्मकादपि भावे पाख्यातम्', यथा- नेह पच्यते, नेह भुज्यते ।
अकर्मकत्वं च-किं करोति ? पचतीत्यादिव्यपदेशशेषादीनामपर्यनुयोज्यत्वात् किं करोति, भवतीत्यस्त्येव व्यपदेशः । सत्यम्, किन्तु १० कियाख्यकर्मनिबन्धनोऽसौ न बाह्यकर्मापेक्षः, भवनं करोतीत्यर्थावगमात् । क्रिया हि सर्ववातूनामन्तरङ्ग' कर्म । अत एव च क्रियाविशेषाणां कर्मत्वं स्मरन्ति-शोभनं घटो भवति । ___ कालभावाध्वदेशाश्च सर्वक्रियाव्याप्यत्वात् कर्मत्वेन सर्वधातूनामपरिहार्याः । मासमास्ते, गोदोहं स्वपिति, क्रोशं क्रीडति, कुरूशेते । १५
सकर्मकाकर्मकव्यवहारः कथमिति चेत् ? द्रव्यकर्मनिमित्त इति । ब्रूमः । कर्मयोगामृततरङ्गिण्याम्
प्रत्ययोऽकर्म काद् भावे कर्मणि स्यात् सकर्म कात् । सकर्मकाकर्मकत्वं द्रव्यकर्म निबन्धनम ॥ इति ।
१. 'वर्तमानात्' पाठा०। २. द्रष्टव्यम्-महाभाष्य १।३।२७॥ २० ३. 'भावे प्रयोग:' पाठा० । ४. पचतीत्यारभ्य करोति पर्यन्तं क्वचिन्नास्ति । ५. 'मान्तरम्' पाठा।
६. अयं भावः-द्विविधो हि धातुः, सकर्मकोऽकर्मकश्च तत्र सकर्मकघातूनां द्विविधं कर्म, अन्तरङ्ग बहिरङ्गच। तत्र क्रियाविशेषणमभेदसंबन्धेनान्तरङ्ग २५ कर्म। तद्भिन्नं च बहिरङ्गम् । बहिरङ्गकर्मापेक्षयव पासव: सकर्मका प्रकर्मकाश्च व्यपदिश्यन्ते । प्रकर्मधातूनामन्तरङ्गमेव कर्म भवति ।
७. द्रष्टव्यम् - महाभाष्य ११४५१॥ ८. 'यन्ममैवामृततरङ्गिण्यामुक्तम्' पाठा० ।
३०