________________
। क्षीरतरङ्गिण्यां दरिद्रा-जागृ-दीघोडाम् एकाचां च चिरेजिरेः ।
प्रदन्तोर्णोति-वेवीडो स्मर्यते नेत् 'तथा लडेः॥' एघादीनां त्वेकारादेनिरनुनासिकत्वादेव इत्संज्ञा नास्ति । यद्वषामपि अकारादौ' लुप्त एकाच्त्वादेव सा न स्यात् । __कर्तरि कर्मव्यतिहारे, भावकर्मणोश्च (१।३।१४,१३) प्रात्मनेपदम् । व्यतिभवते, अन्येन चिकीर्षितां भवनक्रियां करोतीत्यर्थः । अन्योऽन्यक्रियाविनिमये हि कर्मव्यतिहारे एकवचनं न स्यात् । भावे त्वकेवचनमेव, पाख्यातस्यासत्त्ववृत्तित्वेन संख्याद्यभावात् । तहि एकवचनमपि कथम् ? द्वयादिप्रतिपक्षकत्वाभावेऽपि अभेदैकत्वात् । एकवचनमुत्सर्गः करिष्यते इति हि भाष्यम् (१।११३८)। चैत्रेण भूयते। अत एव मध्यमोत्तमपुरुषावपि न स्तः । भूयते त्वया, भूयते मया। अनुभूयते सुखम्, संवेद्यते इति । अर्थान्तरेऽत्र वर्तमानादकर्मकस्यापि सकर्मकत्वम्, सकर्मकस्यापि चाकर्मकत्वम् । यदाहुः__ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसग्रहात् । प्रसिद्ध रविवक्षातः कर्मणोऽकमिका क्रिया ॥
(वाक्यपदीय ३७1८८, पृष्ठ २३)
१०
१. द्र० क्षीरतरङ्गिणी १०९–'तथा लण्डि इति स्मरणात् । प्रस्मन्मतेत्वत्र 'तथोलडे:' इत्येव शुद्धः पाठो ज्ञेयः । तथैव च पुरुषकारे पाठोऽयमुद्धृतः (पृष्ठ ११९)।
२. श्लोकोऽयं माधवीयधातुवृत्ती क्षीरस्वामिनाम्नोज्रियते । तत्र च द्विविध: पाठ उपलभ्यते। मैसूरसंस्करणे-'दरिद्राजागृदीधीडामनेकाच्वं घिरेजिर: । प्रदन्तीर्णोतिवेवीङां स्मर्यते णेस्तथोलडे:' इति पाठः (भाग ४ पृष्ठ २२७)। काशीसंस्करणे तु-'दरिद्राजागृदेधीङोऽनिकाचश्च चिरिजिरिः ।
चकास्त्यर्णोतिदेवीङः स्मर्यते णो तथोलडिः' इति पाठः (पृष्ठ ३७४) । स २५ चात्यन्तं परिभ्रष्टः । उपरितन एव च पाठ उद्धृतः पुरुषकारे, पृष्ठ ११९ । ३. 'ऋकारादी' पाठा०।
४. 'मभेदत्वात्' पाठा०।। ५. श्लोकोऽयं भागुरिप्रोक्त इति मुग्धबोधटीकायां रामतर्कवागीशः (द्र० २८२ सूत्रस्य प्रमोदजननी टीका)।