________________
५
म्वादिगणः (१) स्कारः । सम्भवतीति तन्मात्रार्थः । अनुभवतीति संवेदनम्। विभवतीति व्याप्तिः । अाभवतीति भागावगतिः । उद्भवतीत्युभेदः । प्रतिभवतीति लग्नकत्वम् ।
उदात्त इत्यस्यानुदात्तत्वाभावेन एकाच उपदेशेऽनुदात्तात् (७) २।१०) इतीडागमनिषेधाभावात् सेट्त्वम् । आर्धधातुकस्येड् वलादेः ५ (७।२।३५) इति प्रत्ययस्य सेटत्वेऽनिटत्वे चोपचाराद् धातोस्तथा व्यपदेशः।
आमनेपदोभयपदानुबन्धाभावाच्च शेषात् कर्तरि [परस्मैपदम्] (१।३।७८) इति परस्मैपदम् । अपवादाभावाच्चौत्सर्गिकः शब्विकरणः । भवति । भवन् । भविता।
निरनुनासिकत्वादूकारस्येत्संज्ञा नास्ति । अत एव उदात्त इत्याह, नोदात्तेदिति । यत् स्मृतिः
१. तावतीमात्राऽत्र युक्तेत्यर्थ, । तथा चैवं वाक्यं प्रयुज्यते- 'प्रस्थमत्रीदनानां सम्भवति' । 'जन्मार्थ' पाठा० । अत्र 'जन्मार्थ:' पाठान्तरं साधु स्यात् । द्र० क्रियारत्नसमुच्चयः, पृष्ठ २२ ।
२. 'भागापत्ति:' 'भागागति:' पाठा० । 'भागागति:' क्रिया रत्नसमुच्चये पाठः। . :: ३. द्र० क्रियारत्नसमुच्चयः, पृष्ठ २२ । 'लग्नक: प्रतिभूः' इति धर्मशास्त्रव्याख्यासु व्याख्यायते। . ४. काशकृत्स्नधातुपाठस्य कन्नडटीकायां भू धातोरिमे ऽर्था निर्दिष्टा:- २०
"सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः।
अभिप्राये च शक्ती च प्रादुर्भावे गतौ च भूः ।।" - सत्तायां यथा-विरला भवन्ति सन्तः, सन्तीत्यर्थः । मङ्गले यथा-पुत्रस्य भूति: कार्या; मङ्गलमित्यर्थः । वृद्धौ-गोत्रस्य भूतिः, वृद्धिरित्यर्थः। निवासे -भवनम् । व्याप्तौ-विश्वं भवति, व्याप्नोतीत्यर्थ: (अस्मिन्नर्थे सकर्मकोऽयं २५ धातुः, सम्पा०)। सम्पद्यर्थे अदी? दी| भवति, सम्पद्यत इत्यर्थः । अभिप्रायेअयं भावः, अभिप्राय इत्यर्थः । शक्ती-तन्तुर्भवति शक्नोतीत्यर्थः । प्रादुर्भावेप्र रो भवति, जायत इत्यर्थः । गती- भूताः, गता इत्यर्थः" इति । द्र० काशकृत्स्नधातुव्याख्यानम्, पृष्ठ ३, ४। । ५. 'सेटकत्वम्' पाठा० ।
६. 'तयो:' पाठा०। ३०