________________
क्षीरतरङ्गिण्यां क्तव्य' इति । अत एव माङ्गलिकत्वाच्च पूर्वमस्य प्रयोगः । । [धातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः । यदाहुः-]
क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः ।
। प्रयोगतोऽनुमन्तव्या' अनेकार्था हि धातवः ॥ ५. तथा च भूरयं क्वचिद् अस्त्यर्थे वर्तते-बहूनि धनान्यस्य भवन्ति,
सन्तीत्यर्थः । क्वाप्यभूतप्रादुर्भावे-क्षीरभोजिन्याः श्रुतंघरः पुत्रो भवति, जायत इत्यर्थः। क्वचिद् अभूततद्भावात्मके सम्पद्यर्थेपटोऽशुक्ल: शुक्लो भवति, सम्पद्यत इत्यर्थः । अपि च तत्तदुपसर्गवशाद्
धातोः स सोऽर्थः प्रकाश्यते । यथा प्रभवतीति स्वाम्यर्थः, प्रथमत . १० उपलम्भश्च । पराभवति, परिभवति, अभिभवति इति प्रथमतः तिर
१. 'तत्रास्ति भवतीति परं प्रयोक्तव्यम्' पाठा० ।
२. भूशब्द: खलु महाव्याहृतिवाचक इति तस्य मङ्गलार्थकता युक्तेति कैयट: (महाभाष्यप्रदीप १।३।१)।
३. कोष्ठान्तर्गतोऽयं पाठो मद्रासहस्त् लेखेऽधिक उपलभ्यते । द्र० राजकीय१५ हस्तलेखपुस्तकालयसूचीपत्र, पृष्ठ १०४६, सं० ७६४ । चुरादावपि (सूत्र ३२५ व्याख्यानान्ते) अयं पाठोऽग्रिम: श्लोकश्चोपलभ्यते ।।
४. चौरादिके उद्धरणे 'एककोऽर्थो निदर्शितः' इति पाठान्तरम् ।
५. 'ऽन्ये मन्तव्या' पाठा० । तच्छन्दोभङ्गप्रसङ्गादसत् । 'पञ्चमं लघु सर्वत्र' इति हि तल्लक्षणं भवति । चान्द्रधातुपाठान्ते 'ऽनुगन्तव्या' इति पठ्यते । ... ६. श्लोकोऽयं चान्द्रधातुपाठान्तेऽपि द्रश्यते । काशकृत्स्नधातुपाठस्य कन्नडटीकारम्भ एक: श्लोक इत्थं पठ्यते
"निपाताश्चोपसर्गाश्च धातवश्च त्रयोऽप्यमी।
अनेकार्याः स्मृता: सद्भिः पाठस्तेषां निदर्शनम्" ॥ इति ।
अत्र 'सभिः' इत्यस्य 'इन्द्रचन्द्रापिशलिगायेगालवपौष्करः' इत्यर्थः कन्नड२५ टीकायां विवृतः । 'द्र० काशकृत्स्नधातुव्याख्यानम्, पृष्ठ ३ ।
७. 'श्रु तधरः' पाठा० ।
८. 'प्रथमतः' इत्यनावश्यकं पदम् । द्र०-क्रियारत्नसमुच्चयः, पृष्ठ २२ । तत्र 'प्रथमतः पदं नास्ति ।