________________
भ्वादिगणः (१)
न्याय्ये वर्त्मनि वर्तनाय भवतां षड्वृत्तयः' कल्पिताः ॥७॥ अथ नित्यानां लोकवेदप्रसिद्धानां भवतीत्यादिशब्दानां स्वरार्थसाधनकालाधवबोधनार्थं प्रकृत्यादिविभागकल्पनया व्याख्यानम् इति' प्रकृतयः सूत्र्यन्ते -
१. भू सत्तायाम्, २. उदात्तः । भू इति अविभक्तिकोऽयं निर्देशो ५ भ्रान्तिनिरासार्थः, छान्दसो वा सुलुक-छन्दोवत् सूत्राणि भवन्ति (१।१।१ भाष्ये) इति । एवं सर्वत्र । सतो भावः सत्ता=अस्तित्वम् । भावो धात्वर्थसामान्यमिति यावत् । यदाहुः
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ॥ .. तां प्रतिपदिकार्थ च धात्वथं च प्रचक्षते ॥ इति ।
(वाक्यपदीय ३।१।३४,३५) .. सा जातिरित्यर्थः । यद् वैशेषिकम्-सामान्यं द्विविधम्, परमपरं च । परं सत्ता महाविषयत्वात् (तु०-प्रशस्तपादभाष्य, उद्देश- - प्रकरण) । अपि च -
धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । तथा-यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयो
१. श्लोकोऽयं क्षीरस्वामिकृतायाममरकोशटीकायामपि दृश्यते । कास्ता: षड्वृत्तय इति न निश्चितं शक्यते वक्तुम् । केचनैवं प्रतिजानते -१. अमरकोशोद्धाटनम्. २. क्षीरतरङ्गिणी, ३. निपाताव्ययोपसर्गवृत्तिः, ४. अमृततर- २० ङ्गिणी, ५, निघण्टुवृत्तिः, ६. गणवृत्तिश्चेति । मासु प्रथमतृतीये वृत्ती मुद्रिते।
२. 'अथ नित्यानां स्वरार्थसाधनकल्पनया व्याख्यानमिति' इत्येव पूर्वोक्ते हस्तलेखे पाठः, पृष्ठ १७७ ।
३. निर्दिश्यन्ते' पाठा०। ४. 'सुब्लुक्' पाठा० ।
५. 'भवन्ती' इति वर्तमानकालस्य पूर्वाचार्यसंज्ञा। तेनायमर्थः—यत्राऽन्या २५ क्रिया न प्रयुज्यते, तत्र वर्तमानकालिकोऽसधातुः प्रयोक्तव्य इति । तथा चोक्तं महाभाष्ये (२।३।१)-'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते' इति ।