________________
क्षीरतरङ्गिण्यां सेट्त्वानिटत्वोपग्रहा' इत्फलं' च । अष्टाध्याय्यां ये विशेषप्रयोगा, धातोर्धातोर्दर्शितास्ते विशेषात् ॥३॥ य एव पारायणिकदृष्टोऽत्र विवरीतृभिः । पन्थास्तेनैव याताः स्म कृत्वा गजनिमीलिकाम् ॥४॥ न विचारिताः प्रयोगाः पारायणिकैहि तत्र संरब्धम् । सत्याधंधातुकेऽपि च षोढा नोदाहता प्रकृतिः ॥५॥ भग्नाः पारायणिकाश्चन्द्राद्या अपि च यत्र विभ्रान्ताः । तान् धातून् विवरीतु गहनमहो अध्यवसिताः स्मः ।।६।। जाता विश्वसजः क्रमेण मुनिभिः संस्कारमापादिताः, शब्दाः संवसनादसाधुभिरपभ्रष्टाः स्थ भो भ्रातरः !
वाग्देव्याद्य कृता मदेकशरणा मात्रा यतोऽस्मान्मया, १. उपग्रहः परस्मैपदात्मनेपदे इति भट्टोजिदीक्षितः । नागेशस्तु 'उपदेश. व्यङ्ग्य स्वार्थत्वादि । इह तत्प्रतीतिनिमित्तये परस्मैपदात्मनेपदे उपग्रहशब्देन लक्षणयोच्येते' इत्याह (उद्द्योत ३३११८५)।
२. ' त्वोपग्रहादे: फलं च' इति पाठान्तरम् । द्र० पूर्वोक्तो हस्तलेखः पृष्ठ १७७ ।
३. गजनिमीलिकाशब्दे उद्दालकपुष्पभञ्जिकादिवत् 'संज्ञायाम्' (अष्टा० ३।३१०६) इति सूत्रेण ण्वुल द्रष्टव्यः । यथा गजः सन्मुखागतं वस्तुजातम. गणयन् गच्छति तद् यत्कार्य क्रियते तद् गजनिमीलिकाशब्देनोच्यते।
४. 'सत्याष्टधातुकेऽपि' इति पाठान्तरम् । द्र०-पूर्वोक्तो हस्तलेख:, पृष्ठ १७७।
५, शुद्धा, ण्यता, सनन्ता, णिचि सन्परा, यङन्ता, यङ्लुगन्ता च । तथा च स्वयं ग्रन्थकारो वक्ष्यति–'स्याच्छुद्धा प्रकृतिर्ण्यन्ता सनन्ता णिचि सन्परा। २५ यङन्ता यङ्लुगन्ता च नातोऽन्या, निष्प्रयोजना'। (पृष्ठ ८५०८,९) इति।
६. 'च' पदं पूर्वनिर्दिष्टहस्तलेखानुसारं बर्षितम् । पास्माकीने पूर्वसंस्करणे नासीत् ।
७. 'वाग्देव्यास्य' इति पाठान्तरं पूर्वोक्ते हस्तलेखे, पृष्ठ १७७ । ८. 'पात्रायते' इति पाठः पूर्वोक्ते हस्तलेखे, पृष्ठ १७७ ।