________________
ॐ
क्षीरतरङ्गिणी
[पाणिनिमुनिप्रणीत-धातुपाठ - व्याख्यानभूता] भ्वादिगणः
तरङ्गसुभगं' क्वणन्मधुप किङ्किणीजालिनं', करं प्रचल पुष्करारुण शिखाग्रमुल्लासयन्' । विभुर्जयति विघ्नजिद् भुवनपृष्ठमारोपयन् दुरन्तदुरितक्षयाद् विजयवैजयन्तीमिव ॥ १ ॥ धातुवैषम्यमनाद् वाङ्मयाप्यायनी सताम् । क्षीरस्वामिप्रसूतेयं वृत्तिः क्षीरतरङ्गिणी ॥२॥ सूत्रव्याख्या * कार्यजातं गणानाम्,
१. ' तरंग (भंग) सुभगं ' इति संशोधितः पाठः । द्र० भण्डारकर चोरियण्टल रिसर्च इंस्टीट्यूट (पूना), व्याकरणहस्तलेखसंग्रह, सन् १९३८. हस्तलेखसंख्या २२६, पृष्ठ १७६ ।
२. '०जालकम्' पाठान्तरम् ।
३. '० कणशिखं समुल्सासयन्' इति पाठान्तरम् । द्र० पूर्वोक्तो भ०प्रो० रि० ई० हस्तलेखसंग्रहः, पृष्ठ १७६ ।
४. धातुसुत्रव्याख्येत्यर्थः । 'भू सत्तायाम्' इत्यादीनि पाणिनिवचनान्येव सूत्रत्वेनात्र व्यवहृतानि ग्रन्थकृताः । अत एव 'भू सत्तायाम्, इत्यतः प्राक् प्रकृतयः सूत्र्यन्ते' ( द्र० पृष्ठ ३ पं० ४ ) इत्युक्तम् । धातुसूत्रशब्दप्रयोगः श्रीरतरङ्गिण्यां १० । २७६ व्याख्यानान्तेऽपि द्रष्टव्यः ।
५. भ्वाद्यादिगणानाम् ।
१५
२०