________________
(५२)
२५ - वैयाकरणमतमीमांसा - बहुत्र टिप्पण्यामाघुनिकानां वैयाकरणानां मतान्यपि मीमांसितानि । यथा - पृष्ठ १०, ३, ६३, २; ६६, ४; १३७, ३; १३६, ७१६०, १२८८ १ इत्यादिषु ।
२६ - प्राचीनसंस्कृतभाषायाः प्राचीनशब्दशास्त्राणां च विपुलताभगवतः पाणिने प्राक् संस्कृतभाषाऽतिविपुलाऽऽसीत्, उत्तरोत्तरं तस्या ह्रासः समजनि । तद्ह्रासानुगुणमुत्तरत्र शब्दशास्त्राणामपि संक्षेपोऽभूत् । तेन पाणिनेः प्राक्प्रयुज्यमानान् विलुप्तान् बहुविधान् धातु - प्रातिपदिकप्रत्ययाननिर्दिश्य तत्संबद्धरूपनिदर्शनायोत्तरवर्तिभिराचार्यै
वादिषु यानि वर्णागमादेशलोपादीनि कार्याणि विहितानि, तन्मीमांसा यथास्थानं बहुविधाष्टिप्पण्यो लिखिताः । यथा - पृष्ठ २०, टि० १० ६; २४, ३; ३३, ३; ४८, २; ५१, १; ५३, १; ६१, २; ७३, १८२, ५ ८७, ३; ६८, ५; १३०, ५; २; १५६, १; १७२, ११८८, ५, २०६, ६;
४; २६८, १ ३२७, ५ ।
क्षीरतरङ्गिणी-संस्करणं
एवं विविधाभिष्टप्पणीभिरलंकृत्येदं विदुषां पुरस्तात् समर्प्यते । श्राशासे विद्वांसो महाभागा हंसक्षीरनीरन्यायेनोचितं यथार्थं वा परिगृह्य, अनुचितमयथार्थं वा लिखितमुपे - क्ष्यानुग्रहीष्यन्ति ।
१४२, ४; १४६,
२२६, ५; २५६,
क्षमा-याचना - यथाशक्ति यथाबुद्धि च परिश्रमेण सम्पादितेऽप्यस्मिन् ग्रन्थे कार्यस्य द्वयोर्व्यासज्यवृत्तित्वाद्, अस्मत्प्रमादाद्, दृष्टिदोषाद् दूरदेशे मुद्रणात् मुद्रणकाले मात्राक्षरादीनां पाताच्च या अशुद्धयः संजाताः तासां कृते विदुषः पाठकान् क्षमां याचे । विशेषतो यत्र कंचिद्धातु व्याचक्षाणेन ग्रन्थकृताऽन्यगणपठितस्य तस्य तत्सदृशस्य वा धातोर्निर्देशः कृतः, तत्रास्माभिस्तत्स्थाननिर्देशाय या धातुसूत्रसंख्या निर्दिष्टास्तासु बहुत्र व्यत्यासः समजायत । एष संख्याव्यत्यासः प्रायेण द्वत्रिसंख्यानामेव । अतो यत्र मुद्रितधातु सूत्रनिर्देशेऽन्यगणपठितं तद्धातुसूत्रं नोपलभ्येत, तर्हि ततोऽग्रे द्वित्राः संख्या अवलोकनीयाः । रुधादि - गणस्थानां धातूनां निर्देशेऽधिकानां संख्यानामपि व्यत्यासः समभवत् । तदर्थं क्षमां याचमान इदं संस्करणं विदुषां करकमलेषु सादरमुपस्थाप्यते । [सं० २०१४ वि० ] विदुषां वशंवदो युधिष्ठिरो मीमांसकः