________________
(५१) व्याचक्षाणः तस्य तत्सदशस्य वाऽन्यगणपठितस्य धातोनिर्देशं करोति । तादृश निर्देशे क्षीरस्वामिना बहुत्र तेषामपि धातूनां निर्देशः कृतो यान् स स्वयं तत्तद्गणेषु न पपाठ । अस्या भ्रान्तेरपि यथास्थानं टिप्पण्यां निर्देशोऽकारि । यथा-पृष्ठ ६३, टि० २; १२३, ४, २२२, १; २३३, ३; २७६, २; २६८, १; ३१६, ५; ३२५, ३ इत्यादिषु ।
१८-सायणेन मधैव निर्दिष्टानां क्षीरमतानां निर्देशः-सायणेन स्वकीयायां धातवृत्तौ क्षीरस्वामिनाम्ना क्षीतरङ्गिणीनाम्ना वा बहुनि क्षीतरङ्गिणीविपरीतानि मतान्युद्धतानि,तानि टिप्पण्यामस्माभिर्यथास्थानमालोचितानि । यथा-पृष्ठ ४१, टि० ४; ४२, ५, ६६, २; २०८, ५ इत्यादिषु ।
१९-क्षीरस्वामिवचनाभिप्राये सायणभ्रान्तिः- क्वचित् सायणः क्षीरस्वामिवचनाभिप्राये ऽपि भ्रान्तः । तादृशभ्रान्तेरपि टिप्पण्यां निर्देशो विहितः । यथा-पृष्ठ १६१ टि० ४; एवमन्यत्रापि । . २०-धातु-पाठालोचनम् -बहुत्र टिप्पण्यामस्माभिर्धातूनां पाठास्यालोचनाऽपि व्यधायि । यथा पृष्ठ ३४, टि० ४; ३५, ५, ६१, ३; ६२, ४; १३६, ४; १४६, २, २०२, १; २०४, ५, २४१, १; २४२, २; २५५, ५; ३२१, २ इत्यादिषु ।।
२१-पाणिनीयसूत्रार्थालोचनम् –क्वचित् पाणिनीयसूत्रार्थालोनमपि विहितम् । यथा-पृष्ठ १५०, टि० ३।
२२- उणादिसूत्र-पाठविचार - उद्धृतोणादिसूत्रप्रसंगेन क्वचिदुदिसूत्रपाठस्याप्यालोचना कृता । यथा- पृष्ठ २०२, टि० ४ ।
२३-चान्द्रधातुपाठ-भेद-भ्रंशादिनिदर्शनम् - क्षीरतरङ्गिण्यां चन्द्रनाम्ना निर्दिष्टाः केचन धातवो जर्मनमुद्रिते चान्द्रधातुपाठे पाठभेदेनोपलभ्यन्ते, केचन तत्र नैवोपलभ्यन्ते । तेषां टिप्पण्यामस्माभिर्यथास्थानं निर्देशो विहितः । यथा -पृष्ठ ६६, टि०३; २३८, १; २४६, १; २६२, ३; २६३, १.४; २६४, २. ४ ; २९७, ३; २६८, ६; ३००, ३; ३०४,४; ३०६, १; ३०७, २ इत्यादिषु ।
२४ - अर्थविशेषनिर्देशः-अनेकत्रास्माभिः केषाञ्चित् प्रसंगादुपातानां शब्दानां विशिष्टार्थनिर्देशायापि प्रयतितम् । यथा--पृष्ठ ६०, टि० ४; १४४, ८, २५८, ३; ३०६, १ इत्यादिषु ।