________________
(४८)
चार्यस्य संभाव्यमानं साहाय्यमप्यनश्यत् । मय्येव सकलः सम्पादनकार्यभार ग्रापतितः। सत्यपि स्वास्थ्यवैकल्ये विविधकार्यभारे च यथाकथंचित मया तत्कार्यं पारं गमितम् । अत्र कियत्साफल्यं लब्धमित्यत्र तु विद्वांस एव प्रमाणम् । कार्यस्यास्य द्वयोासज्यवृत्तित्वात् स्वास्थ्यवैकल्याद् अतिशयकार्यभाराच्च या अत्र न्यूनताः समजायन्त ता अहं संजाने । तथापीदं शक्यते वक्तुं यदिदं संस्करणं पूर्वजर्मनसंस्करणापेक्षया साधुतरं निष्पन्नमिति ।।
जर्मनसंस्करणापेक्षयात्र वैशिष्टयम् । यद्यपि विदुषा लिबिशेन रोमनाक्षरसंस्करणं महता परिश्रमेण सम्पादितम्, तथापि तस्य पाणिनीये व्याकरण सम्यक्प्रवेशाभावाद् बहुत्र तदीयाः सम्पादनप्रमादा उपलभ्यन्ते । अस्माभिस्तदीयप्रमादानां परिमार्जनाय, संस्कृतविदुषां सौकर्याय, उपलब्धिसौलभ्याय प्राचीनवाङ्मयपरिरक्षणाय च विविधग्रन्थसाहाय्येनेदं संस्करणं परिष्कृतम् । अत्र यद्यद् वैशिष्टयमस्माभिः सम्पादितं तदित्थम्
१-धातुसूत्रसंख्यानिर्देशः-धातुपाठे 'भू सत्तायाम्' 'एध वृद्धौ' इत्येवमादीनि वाक्यानि क्षीरस्वाम्यादीनां पूर्वाचार्याणां मते सूत्राण्युच्यन्ते (द्र० पृष्ठ १, पं० १०, टि० ४) । अतोऽत्रापि पाणिनीयाष्टकवत् प्रतिधातुसूत्रमादौ सूत्रसंख्या निर्दिष्टा । यथा--
१. भू सत्तायाम्, २. उदात्तः (पृष्ठ३), ३. एध वृद्धौ (पृष्ठ १२), ४. स्पर्ध संघर्षे (पृष्ठ १३) इत्यादिषु।
२-धातुसंख्यानिर्देशः-कस्मिन् प्रघट्टके कियन्तो धातव इति विज्ञानाय, प्रतिगणं धातुसंख्यावच्छेदाय च प्रतिसूत्रव्याख्यानन्तरं यथाक्रमं धातुसंख्याया निर्देशोऽप्यकारि ।
३. लिबिशोपात्तधातुसंख्यापरित्यागः-लिविशेन स्वीये संस्करणे भोलिङ्गसम्पादितधातुपाठानुसारं तत्तद्धातुसंख्यानिर्देशो विहितः । क्षीरतरङ्गिण्यां तत्रस्थानां बहूनां धातूनामभावात् क्रमवैपरीत्याच्च तदीयधातुसंज्यानिर्देशस्यानुपयोगितामवेक्ष्य तनिर्दिष्टां धातुसंख्यां परित्यज्यास्माभिमूलग्रन्थानुसारिणी धातुसंख्या प्रदत्ता।।
२. अन्यरुद्धृतानां क्षीरतरङ्गिणीपाठानां स्थाननिर्देश:-क्षीरतरङ्गिण्या यान्युद्धरणानि पुरुषकारे धातुवृत्तावन्यत्र चोपलभ्यन्ते, तेषां