________________
अस्मदीयं संस्करणम् पाणिनीयधातुपाठस्य उपलभ्यमानासु वृत्तिषु क्षीरस्वामिनः क्षीरतरङ्गिणी प्राचीनतमा वर्तते । ब्र नो-लिबिशनामकेन जर्मन-विदुषाऽस्याः प्रथमं संस्करणम् ऋषिवस्वङ्कचन्द्रमिते (१९८७) वैक्रमाब्दे (=१६३० ईसवीये) प्रकाशितम् । अस्मिन संस्करणे रोमनाक्षराणां प्रयोगात्, भूमिकायां टिप्पण्यां च जर्मनभाषाया व्यवहारान्नेदं भारतीयानां संस्कृतविदुषां कृते लाभप्रदमभूत् । अतस्तदुपलब्धिकालादेवास्माकीना मतिरस्य ग्रन्थस्य नागराक्षरेषु प्रकाशनस्याजायत । तदनु द्वितीये विश्वमहायुद्धे तदपि संस्कारणं दुर्लभतां गतमिति कृत्वा तत्प्रकाशनस्य महतीमावश्यकतामन्वभूवम् ।
अस्दाचार्यवर्याणां पण्डितब्रह्मदत्तजिज्ञासूनां लवपुरस्थे विरजानन्दाश्रमे विद्यामधीयानेन वणिना वाचस्पतिनाऽस्मन्निर्देशमनुसृत्य १९६८ वैक्रमाब्देऽस्य ग्रन्थस्य नागराक्षरेषु प्रतिलिपिरारब्धा । केनचित कारणेन सोऽदादेमध्यं यावत् प्रतिलिपि कृत्वा विरराम । तदनु भारतदेशविभागानन्तरं काशीमागत्य २००६ वैक्रमाब्दे शेषांशस्य पूतिरस्माभिः स्वयमकारि । तस्मिन्न व काले काश्या राजकीयसंस्कृतमहाविद्यालयेऽधीयानेन पण्डितरामशंकरभट्टाचार्येणास्य समग्रस्य ग्रन्थस्य नागराक्षरेष प्रतिलिपिविहिता । भट्टाचार्योऽस्य ग्रन्थस्य प्रकाशनायापि संचक्लपे, परं कार्तार्थ्यं नाभजत । २०११ वैक्रमाब्दे श्रीरामलालकपूरनिक्षेपसंस्थाधिकारिभिरस्य ग्रन्थस्य प्रकाशनाय मतिरकारि । बहुकार्यव्यग्रतया मयाऽस्य ग्रन्थस्य सम्पादनकार्ये रामशंकरभट्टाचार्यस्य साहाय्यमग्राहि। किञ्चित् कालान्तरं भट्टाचार्योऽप्यन्यकार्यजातमुररीकृत्यास्मात् कार्यात् प्रायेणोपरराम । अहमपि स्वास्थ्यवैकल्यात् काशी परित्यज्य देहली प्रत्यायातः। अतो भट्टा
१. इदं प्रकरणं प्रथमसंस्करणे प्रकाशितमेव यथावद् वर्तते । केवल उत्तरेषु संदर्भेषु यत्र यत्र प्रथम संस्करणे पृष्ठ टिप्पणी संख्या निर्दिष्टाऽसीत् सेह प्रस्तुतसंस्करणानुसारं परिष्कृता।