________________
(४६) निर्देशः प्रायेणास्माभिष्टिप्पण्यां कृतः । यत्र तु तद्ग्रन्थेषद्धृतः पाठोऽक्षरशः समान प्रासीत्, तत्र 'उद्धृतम्' इति, यत्र त्वर्थतोऽनुवादः शब्दवैपरीत्यं वाऽभूत् तत्र 'स्मृतम्' इति च संकेत्य तत्तत्स्थाननिर्देशोऽकारि। यथा- उद्धृतम्-पृष्ठ ३०, टि० ३,६; “मृतम्-पृष्ठ २४, टि.० ४, ६ एवं सर्वत्र । _. अत्र विठ्ठलाचार्यकृतायां प्रक्रियाकौमुदीव्याख्यायामुद्धृतानां स्मृतानां वा पाठानामल्पीयानेव संग्रहोऽभूत् तद्ग्रन्थस्यास्मत्सकाशेऽभावात् । - ५-अन्यत्रोद्धृतपाठभेदानां निर्देशः यत्रान्यत्रोद्धृतः क्षीरतरङ्गिणीपाठः सर्वथैव भिन्न आसीत, यद्वा क्षीरस्वामिनाम्ना क्षीरतरङ्गिणीनाम्ना वोद्धृतः पाठोऽत्र नोपलब्धः, तादृशपाठानां निर्देशष्टिप्पण्यामस्माभिर्विहितः । यथा-पृष्ट १६, टि०२;२७, ७; ४०, ४; ४५, २, ५०, ५; १०४, ५; ११७, ३ इत्यादिषु पञ्चत्रिंशत् स्थानेषु यथास्थानं द्रष्टव्यम्। - ६–मूलपाठसंशोधनम् -पुरुषकारादिषूद्धृतपाठसाहाय्येन यत्र तत्र जर्मनसंस्करणे मुद्रितानामपपाठानां संशोधनं कृत्वा तेषां टिप्पण्यां संकेतो विहितः । एतद्विषयका इमाष्टिप्पण्योऽवलोकनीयाः -पृष्ठ १०, टि २; २६, १; १५१, ३, २४२, २ इत्यादयः। - ७-मूलपाठशोधप्रदर्शनम् – यत्र मूलपाठशोधनाय न किञ्चित् साक्षात् साधनमुपलब्धं, तत्रतत्रापपाठानां स्थाने साधुपाठाभ्यूहष्टिप्पण्यां प्रदर्शितः । यथा-पृष्ठ ६, टि० १, २; ६२, ४, ६४, ६; १२०, ३; १६२,४; १७६, ७, इत्यादिषु त्रयत्रिंशत्स्थानेषु यथायथं द्रष्टव्यम्।
८-त्रुटितपाठपूतिः-यत्र क्वचित् क्षीरतरङ्गिण्यां पाठस्त्रुटित आसीत् तस्य[ ] कोष्ठे पूर्ति विधाय टिप्पण्यां तन्निर्देशः कृतः । यथा-पृष्ठ १२३, टि० १; १२८, १ इत्यादिषु । ___-भ्रष्टपाठ-संकेतः-यत्र यत्र क्षीरतरङ्गिण्यामस्माभिः पाठभ्रंशो विज्ञातः, तस्य सर्वस्य संकेतष्टिप्पण्यां विहितः । यथापृष्ठ ७३, टि० २, ७; १२७, १; २१६, २; २७३, ३; २७७, ३; २८५, ५; ३०२, १; ३१६, १; ३१८, ६; ३२२, ४ इत्यादिषु ।
१०-पाठतुलना-बहुत्रास्माभिः क्षीरस्वामिनोद्धृतानां पाठा