________________
चुरादिगणः (१०) देवताभ्यो हविः, संकल्पयति । भ्वादौ कृपू सामर्थ्य (१।५०८)कल्पते । तादयेऽवकल्कन इत्येके । अत एव भू कृप प्रवकल्कने इति दुर्गः। चन्द्रो द्वावप्यवकल्कने चिन्तन इति व्याख्यत्'-सम्भावयति, अवकल्पयति ॥२०६॥
१८७. रग लग प्रास्वादने । रागयति, लागयति। अन्यत्रार्थे ५ घटादी रगे शङ्कायाम्, लगे सङ्गे (११५३२,५३३)--रगति, लगति, रगयति, लगयति । रक लकेति चन्द्रः, प्रासादने इति दुर्गः ॥२०७।।
१८८. अन्च विशेषणे। विशेषणम-अतिशयः अञ्चयत्यर्थान, व्यक्तीकरोत्यर्थः । भ्वादौ अन्चु गतौ (११११६)-अञ्चति ॥२०८।
१८६. लिगि चित्रीकरणे । लिङ्गयति, उल्लिङ्गयति, लिङ्गम्। १० भ्वादौ लिगि गत्यर्थः (१।६१)-आलिङ्गति ॥२०॥ ___ १६०. मुद संसर्गे। मोदयति सर्पिषा सक्तून् । मोदकः। भ्वादौ मुद हर्षे (१३१६)-मोदते ॥२१०॥
१९१. उध्रस उञ्छे । क्रयादिः (९।५६) एवायं स्वार्थणिजर्थः पठित इत्युदित्त्वम्-ध्रासयति, ध्रस्नाति । प्रयोगसमवायीत्येके-उद्- १५ ध्रासयति, उद्धस्नाति ।।२११॥ __. १९२. मुच प्रमोचने । मोचयति शरान् । भ्वाद मुच कल्कने (१। १०५)- मोचते, तुदादौ । मुच्ल मोक्षणे (६।१३४)- मुञ्चते, मुञ्चति ॥२१२॥
१९३. प्रास्वदः सकर्मकात् । स्वद संवरणे (१०२००) इति । २० व्याख्यामवकल्पयति इत्युदाहरणं च समर्थो भवति इति व्याचष्ट' (पृष्ठ १२, १३) । धातुवृत्तौ (पृष्ठ ३६२) प्रौढमनोरमायां (पृष्ठ ६१९) चेत्थं स्वामिपाठो निदिश्यते-क्षीरस्वामी तु कृपेस्तादर्थ्य इति पठित्वा तादर्थ्य इति प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे, अथवा तच्छब्देन क्लुपिः परामृश्यते । तस्य योऽर्थः सामर्थ्यलक्षणः, तस्मिन्निति द्वेधा व्याख्यद्' इति ।
२५ १. चान्द्रधातुपाठे नैवेमौ धातू पठ्यते । कुत्र चन्द्रेणैतद् व्याख्यातमित्यपि । विचारार्हम्।
२. 'पाच्छादने' पाठा०। ३. चान्द्रधातुपाठे नैव पठ्यते ।
४. 'प्रास्वादने' पाठा० । दौर्गधातुपाठस्यास्मद्धस्तलेखे नायं धातुः पठ्यते । प्रतः पाठशुद्धिः कीदृशीति न ज्ञायते ।