SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३१४ क्षोरतरङ्गिण्यां भवे इत्येके । शर्धयत्यरिम् । अशशधत् अशीशृधत् । भ्वादौ शृधु शब्दकुत्सायाम् (११५०६)-शर्धति, तथा शृधु मृधु उन्दे (१। ६१३)-शर्धते, शर्धति ॥२००॥ १८१. यत निकारों'पस्कारयोः । निकारः' स्वेदनम् । यात५ यत्यरिम् । यातना तीव्रवेदना । यातयति राजा छिद्रम्, छादयतीत्यर्थः । प्रतियातयति-प्रतिबिम्बयति, प्रतियातना प्रतिबिम्बम् । भ्वादौ यती प्रयत्ने (१।२६) यतते । निरश्च धान्यधनयोः प्रतिदानेनिर्यातयत्यूणम्, शोधयतीत्यर्थः, धान्यधने उपलक्षणम् ॥२०१॥ १८२. वस स्नेहच्छेदापहरणेषु । वासयति, वासना, वासयति १० वृक्षम्, वासयत्यरिम, हन्ति इत्यर्थः । भ्वादौ (११७३३) वसति,. अदादौ (२।१६) वस्ते, वस्त्रम् ॥२०२।। १८३. चर संशये। विचारयति । विचारणा हि सति संशये भवति । चर असंशय इति दुर्गः । अन्यत्र (११३७१) चरति ॥२०३।। १८४. च्यु सहने । च्यावयति । भ्वादौ (११६८२) च्यवते । १५ च्युस सहन इति एके, हसने च इति एके-च्योसयति ॥२०४।। १८५. भुवोऽवकल्कने । अवकल्कनम् मिश्रीकरणम्। भावयति दध्नौदनम् । अनित्यण्यन्तत्त्वार्थम्पञ्चमी । विकल्कने इति नन्दीभावयेद् ब्राह्मणन्तपः, भावितम् । भू प्राप्तावात्मनेपदी (१०।२३१) विभाषा णित्-भावयते, भवते । भू सत्तायाम् (१११) भवति . ॥२०॥ १८६. कृपेस् तादर्थ्ये । तादर्थ्यम् उद्देशविषयम् । कल्पयति १. निराकार इति तु पाठो दृश्यते, निराकारः परिभव इति च क्षीरस्वामी' इति पुरुषकारोद्धृतः पाठः (पृष्ठ ७६) । दीक्षितोऽपि प्रौढमनोरमायां 'स्वामी तु निकारस्थाने निराकारेति पठित्वा निराकारः परिभव इति व्याख्यद्' २५ इत्याह (पृष्ठ ६१८) । एवं धातुवृत्तिकारोऽपि (पृष्ठ ३६१) । अत्र तु सर्व. थैवान्यः पाठ उपलभ्यते। २. 'निकारोपसंस्कारयोः' पाठा० । ३. 'स्नेहच्छेदावहननेषु' पाठा०। ४. 'हानौ' पाठा० । ५. उद्धृतम्-धातुवृत्तौ (पृष्ठ ३६२) पुरुषकारे (पृष्ठ १२) च । ६. 'भावयति क्षीरेण घृतम्' इति पुरुषकारे पाठः (पृष्ठ १२) । ७. अत्र पुरुषकार इत्थमुध्रियते-'स्वामी तु कृपेर्योऽर्थस्तदर्थभाव इति २०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy