________________
३१६
क्षीरतरङ्गिण्यां
वक्ष्यति, आ एतस्मात् इत ऊवं सकर्मकाण्णिच् क्रियते । शाकटायनस्त्वापर्वात् स्वादेराह'-आस्वादयति दधि, अन्यत्र भ्वादित्वात् (१। १८) स्वदते, स्वादमनुभवतीत्यर्थः।
१९४. ग्रस ग्रहणे । ग्रासयति [फलम्] । त्रस वारणे इति दुर्गः-- ५ त्रासयति मृगान् । धारण इति नन्दी, ग्रहण इत्येके । अन्यत्र (४६) त्रसति त्रस्यति ॥२१२॥
१६५. पुष धारणे। पोषयत्याभरणान् । भ्वादौ (१।४६२) पोषति, दिवादौ (४।७३)पुष्यति, क्रयादौ (९।६०) पुष्णाति ।२१३
१९६. दल विदारणे । दालयति दारु । दालपः, दाल्मिः । भ्वादौ १० दल विशरणे (११३६६) दलति, मित्त्वाद् (द्र० ११५५२ व्याख्यानम्) दलयति ॥२१४॥
१६७. पट पुट रुट लुट तजि पिजि लजि लजि अजि सि कशि त्रसि दसि दशि घटि रघि लघि अहि बहि महि गपू धूप विच्छ चीव
बर्ह बल्ह पुथ लोक लोच णद कुप तर्क वृतु वधु भासार्थाः । एते १५ सकर्मका भासा णिचमुत्पादयन्ति । पाटयति, फलिपाटि (उ० १॥
१८) इति पटुः । भ्वादौ (१।१६८) पटति । एषां गणान्तरे पाठः सकर्मकत्त्वेऽपि णिज्विकल्पार्थः, इहैव पठितांस्तु न्याय्यविकरणान् प्रत्युदाहरन्ति-त्रंसति, कुसतीति । पोटयति, तुदादौ (६।७२)पुटति । रोटयति, लोटयति, भ्वादौ (१।४६७ पाठा०) रोटते, लोटते, दिवादौ लुट प्रतिघाते (तु. ४।११६) लुटयति । तुञ्जयति, भ्वादौ (१११५४) तुञ्जति । पिञ्जयति प्रदादौ (२।२० पाठा०) पिङ्क्ते । लञ्जयति,
२५
१. अत्र पुरुषकारधातुवृत्तिकारप्रौढमनोरमाकारा स्वामिपक्षे 'पाङ्पूर्वात् स्वदेः सकर्मकाण्णिज् भवति । पय आस्वादयति' इति पाठमुद्दध्रिरे (पृष्ठ पु० ४४, धा० ३६२, प्रौ० ६१६) । अत्र तु न तथोपलभ्यते ।
२. काशकृत्स्नः 'स्वद आस्वादने, आस्वादः सकर्मकात्तु' इति पठन् (पृष्ठ २०८) नायमभिविधावाङ इति स्पष्टमुद्धोषयति । तथैव शाकटायनोऽपि व्याचष्टे । ___३. अत्राह धातुवृत्तिकार:-'तथा च क्षीरस्वामी - भाषा दीप्तिरर्थो येषां भाषार्थाः इति' (पृष्ठ ३६३) । नात्रायं पाठ उपलभ्यते।
४. सस्मार पुरुषकारः (पृष्ठ ६१) ।
३०