________________
चुरादिगणः (१०)
३११.
१६०. शब्द उपसर्गादाविष्कारे । प्रतिशब्दयति गिरिः--'प्रतिश्रु त्कामा ऽऽविष्करोति' इत्यर्थः । विशब्दयति । योगविभागादाविष्कारे चेत्यनपसर्गादपीति नन्दी-शब्दयति । दौर्गाणां शब्द इत्येक सूत्रम्, शब्दक्रियायामित्यर्थः, तत उपसर्गाद् प्राविष्कार इति चन्द्रः प्रातिपदिकाद्धात्वर्थे (१०।२६५) इत्यनेनैव साधयति ॥१८॥ .. ५
१६१. कण निमीलने । काणयति चक्षः। काणः । भ्वादौ (१॥ ३०२) कणति । मित्त्वात् (द्र० ११५३७) कणयति ।। १८२॥ . १६२. जभि नाशने । जम्भयति, जम्भयते। भ्वादौ जभ जभि जम्भने (११२७३)-जम्भते, जभ्यते । चन्द्रो जभ इत्याह। रधिजभोरचि (७।१।६१) इति नुम्- जम्भयितुम् ॥१८३॥ __ १६३. षूद प्रास्रवणें । सूदयते । घाते च केचित्-निसूदयति । म्वादौ क्षरणे (१।२१)- सूदते, सूदः, निसूदितः ॥१८४।।
१६४. जस ताडने । जासिनिप्रहण (२।३१५६) इति चौरस्योज्जासयति । दिवादौ [मोक्षणे] (४।१०५) जस्यति । जसि (१०। १४४) इत्युक्तम्- जसति ॥१८॥ . १६५. पश बन्धने । पाशयति । भ्वादौ पशति, पशते। उभयत्रापि मूर्धन्यान्त इति दुर्गः ॥१८६॥ सूत्रं क्षीरस्वामिनोऽनिष्टमिति न ज्ञायते । धातुसंख्यायाः समानत्वाद् इह 'पञ्चत्रिंशत् सूत्रेषु' युक्तः पाठः' स्याद् अन्यथा धातुसंख्याप्येका ह्रसीयेत् । धातूनां संख्या तु सप्तत्रिंशदेव । - १. धातुवृत्तौ त्वेवं पाठ उध्रियते 'अत्र स्वामी शब्द उपसर्गादाविष्कारे चेति पठित्वा उपर्सगपूर्वाच्छन्द इत्यस्मादाविष्कारे चकाराद् भाषणे च......' (पृष्ठ ३६०) । इह तु भिन्नः पाठः।
२. धातुवृत्तौ 'प्रतिश्रु तमाविष्करोतीत्यर्थः' इति पाठ उध्रियते (पृष्ठ ३६०) । अयमेव शुद्धः पाठः।
२५. ३. इदं चन्द्रण स्वोपज्ञे धातुव्याख्यान एवोक्तं स्यात् । ४. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते। ५. 'आप्रवणे' पाठा० ।
६. स्वामी स्वादौ (१।६२६) तालव्यान्तं न पपाठ, एकेषां मते ‘पप इति त्वाह ।
30