________________
-३१०
... 'क्षोरतराङ्गण्यां दृष्टम् , कुपूर्वात् स्मयतेः-(११६७८) परिखादिवद्' अन्येष्वपि दृश्यते (३।२।१०१) इति डप्रत्ययः , कुस्मयते, कुस्मयति । ननु स्मिङः कुपूर्वात् कुस्मयत इति सिद्धम्, कुस्माच्च नाम्नः सर्वप्रातिपदिकेभ्यः क्विपि (द्र० ३।१।११ भा०) कुस्मतीति सेत्स्यति तत्किमर्थं कुस्म ५ नाम्नो वेत्युच्यते ? इति चोदित्वा परिहरति -कुस्मयतिरकारितः
इति । कोर्नाम्ना सह नित्यसमासोऽस्ति (द्र० २।२।१८), न तु कुत्सितं स्मयते इति तिङा उपपदमतिङ (२।२।१६) इति । ततश्च स्मयते कु इत्यपि प्रयोगानियमः, स्यात्, स च नेष्यते। अथाण्यन्तेऽपि प्रकृत्य
न्तरे भाषायामेतद्रूपं भवेत्, केन निवार्यत इत्याह --उपसर्गस्य १० बाह्यत्वमिष्यते प्रकुस्मयते, विकुस्मयत इति........ ते प्राग्धातोः(१।
४।८०) इति, कुस्मयत इत्युपसर्गस्य इत्यपव्याख्या। अपि च सार्वधातुके यकि णिलोपे कुस्म्यत इतीष्यते, कुस्मीयत इति स्यात्, कुस्मयाञ्चक्रे इत्यपि कुस्मियाञ्चक्रे इति वा,कुसिष्मिया इति वा,अचुकुस्मतेति वा, चुकुस्मयिषते कुसिस्मयिषते इति, कुस्मनेति कुस्मितिः, कुस्मयित्वेति प्रकुस्म्येति, तस्मादकारित एव । न तु स्वार्थनिर्देशं विना क्रियावाचित्वाभावात् क्रियानिबन्धनाः कारकप्रत्ययाः कर्तव्याः । अथ तत्करोत्याद्यर्थे सूत्रयत्यादिवद् (द्र० ३।२।२६ वा०) अपि णिज् इष्यते, तर्हि प्रातिपदिकाद् धात्वर्थे (१०।२६५) इत्यनेन सिद्धः ? सत्यम्, किन्त्वात्मनेपदप्रवृत्तिर्धातुरूपनिवृत्तिश्च पृथक्पाठेऽस्य प्रयोजनम् । दुर्गस्तु कुस्मयन इत्यपाठीत् । कुस्मेति धातुर्मतिदृष्टं बुद्धयोत्पादितमर्थमाहेति च ॥१७८॥
चतुस्त्रिशतिसूत्रेषु सप्तत्रिंशताधातुभिराकुस्मीयपर्यटकः । १५८. चर्च अध्ययने । चर्चयति वेदम् । चिन्तिपूजि (३।३।१०५) इति चर्चा ॥१७॥ २५ १५६. बुक्क भाषणे । बुक्कयति श्वो । भ्वादौ (१८७) बुक्कति
॥१८॥ १. यथा परिखाशब्दे डस्तथैव कुस्म इत्यत्रापीत्यर्थः । २. इतोऽने कश्चित् पाठस्त्रुटितः । ३. कस्येयं व्याख्येति न ज्ञायते । ४. यस्मान्निर्दिष्टा धातुसूत्रसंख्या तु पञ्चत्रिंशद् भवति । एषु कतमत्