SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चुरादिगण: (१०) भ्वाद [देव] देवने (११३३४) परिदेवने ॥ १७३ ॥ १५३. गृ विज्ञाने । गारयते । तुदादौ निगरणे (६।११२ ) - निगिरति । ऋयादौ शब्दे ( ११२७) गृणाति । कृ विज्ञान इति चन्द्रः ॥। १७४।। 1 ३०६ १५४. विद चेतनाख्यानविवादेषु । वेदयते सुखम् ग्रावेदयते ५ कथाम्, प्रवेदयते वादिनम् । प्रदादौ ( २।५९ ) वेत्ति दिवादी ( ४६२ ) विद्यते । तुदादौ (६।१३६) विन्दति, विन्दते । रुधादौ ( ७ । १७ ) विन्ते ॥१७५॥ १५५. मन स्तम्भे । स्तम्भो गर्वः । मानयते वृषलः' । पक्षे मनतीति चन्द्रः । दिवादौ (४।६६) मन्यते, तनादौ ( 51 ) मनुते । ॥१७६॥ १५६. यु जुगुप्सायाम् । यावयते ब्राह्मणान् जाल्मः । दादौ मिश्रणे (२।२५) यौति । ऋयादौ बन्धने ( १1७ ) यजु कुत्सायामित्येके - योजयते' ।।१७७॥ याव्यम् । युनाति । १५७. कुस्म नाम्नो वा । कुस्ममिति दृष्टम् । कुस्मेत्यस्मान् १५ नाम्नः प्रातिपदिकाण्णिज् वा भवति । यद्वा - कुस्ममिति प्रकृत्यन्तरं १. वृषलशब्दो हि द्वयर्थकः - धर्मात्मवाची अधर्मात्मवाची च । तथा चौक्तं निरुक्ते - 'वृषलो वृषशीलो वृषाशीलो वा' ( ३।१६ ) | धर्मात्मवाची 'वृषादिभ्यश्चित्' इत्यौणादिकेन (१।१०६) सूत्रेण सिद्धयति । मुद्राराक्षसेऽसकृत् चाणक्येनोच्चार्यमाणं वृषलपदं धर्मात्मवाच्येव, न निन्दार्थंकः । को हि नाम बुद्धि- २० मान् राजानं निन्द्यपदेन संबोधनमुचितं मन्यते । २. चन्द्रेण स्वीयधातुपाठव्याख्यायामेतल्लिखितं स्यात् । ३. उद्धृतं पुरुषकारे (पृष्ठ ३३) । ४. इदम्, अग्रे च स्थूलाक्षरेषु मुद्रितानि वचमानि धातुपाठस्य सूत्राणि पूर्ववृत्तेर्वचनानि वा प्रतीयन्ते । इत्थं च कृत्स्नः पाठः - "कुस्म नाम्नो वा, कुस्ममिति २५ दृष्टम्, कुस्मयतिरकारितः, उपसर्गस्य बाह्यत्वमिष्यते, तस्मात् कारित एव ।” धातुवृत्तौ त्वेवं पठ्यते—“कुस्म नाम्नो वा, कुस्ममिति दृष्म्, कुस्मयति रकारितमिति, कोर्नित्यसमासत्वात् उपसर्गस्य चं बाह्यत्वात् करितमेव ।" धातुप्रदीपे त्वित्थं पठ्यते - "कुस्म कुस्मयने, कुस्मनाम्नो वा, कुस्ममिति दृष्टमेव, कुस्मयति रकारितः ।” सिद्धान्तकौमुद्यां नेतानि वचनानि व्याख्यायन्ते । ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy