________________
३०७
१०
चुरादिगणः (१०) (अमर० ३।३।७) किष्किन्धा । हिष्क इति दुर्गः, हिष्कितं लक्ष्यते। म्वादौ (१।६०४) हिक्कति ॥१५३।।
१३४. निष्क परिमाणे । निष्कयते । निष्कः ।।१५४॥
१३५. लल ईप्सायाम् । लालयते । कु' लालयते-कुलालः । । भ्वादौ लड विलासे (११२५०) लडति ॥१५॥
१३६. कूण संकोचने । मुखं विकूणयते ॥१५६।। १३७. तूण पूरणे । तूणयते । तूणः, तूणीरः । तूल इति चन्द्रः'
॥१५७॥ १३८. भ्रूण प्राशायाम् । भ्र णयते । भ्रूणो गर्भः । प्राशङ्कायामित्येके ॥१५८॥
१३९. शठ श्लाघायाम् । शाठयते । शाठः। शट इति नन्दी, शल इति कौशिकः ॥१५॥ - १४०. यक्ष पूजायाम् । यक्षयते । यक्षः । मनिन् (द्र० दश० उ० ६।७३) यक्ष्मा ॥१६०॥
१४१. स्यम वितर्के । स्यामयते । भ्वादौ स्यमु स्वन (११५६५) १५ इति मित्-स्यमति, स्यमयति ।१६१॥ - १४२. गूरी उद्यमे । उद्गुरयते। आगूरणः । तुदादौ गुरी उद्यमे (६।६५) उद्गुरते। अपगुरो णमुलि (६।१।५३) इत्यसावात्वं वा - अपगारम्, अपगोरम् ॥१६२।।
१४३. शम लक्ष पालोचने । निशामयते । वा दान्तशान्त (७।२।। २७) इति शान्तः । अनालोचने-निशामितः । दिवादौ (४६४) शाम्यति । शमोऽदर्शने (११५५८) इति मित्त्वम्-शमयति रोगम् । लक्षयते लक्षणम्, लक्षते । अन्यत्र लक्षयति घटम् ॥१६३,१६४॥
१४४. कुत्स अवक्षेपणे । कुत्सयते । कुत्सना । चिन्तिपूजि (३।३। १०५) इति कुत्सा ॥१६॥
१४५. त्रुट छेदने । त्रोटयते रज्जुम् । तुदादौ (६।८०) त्रुटयति, १. 'कु भूमिम्' इत्यर्थः । २. नोपलभ्यते मुद्रिते चान्द्रधातुपाठे ।