________________
(क्षीरतरङ्गिण्या .. १२५. दाश दाने । दाशयते । भ्वादौ (११६२१) दाशति, दाशते
॥१४३॥ १२६. दशि दंशने । दंशयते। भासार्थः (१०।१९७) दंशयति । भ्वादौ दन्श दशने । (११७१६) दशति ।। १४४।। ५ १२७. दसि दर्शनदंशनयोः । दंसयते दंसितः। भासार्थः (१०। १९७) दंसयति ॥१४॥
१२८. तत्रि कुटुम्बधारणे । कुटुम्बं परिवारः, उपलक्षणञ्चैतत् । तन्त्रयते । तन्त्रम् । स्वतन्त्रः। अवितस्ततन्त्रिभ्य ई: (उ० ३।१५८) -तन्त्रीः । अच इ: (उ० ४।१३६) तन्त्रिः । तन्द्रा तन्द्रीति पृषोदरादित्त्वात् (द्र० ६।३।१०६)। द्वौ धातू मत्त्वा चान्द्राः कुटुम्बयत इत्यप्युदाहरन्ति' ॥१४६॥
१२६. मत्रि गुप्तभाषणे । मन्त्रयते । मन्त्रः ।।१४७॥
१३०. स्पश ग्रहणसंश्लेषणयोः । स्पाशयते। अत्स्मृदृत्त्वरं (७।४। ६४) इत्यपस्पशत् । वा दान्त (७।२।२७) इति स्पष्ट: स्पाशितः । १५ भ्वादौ स्पश बाधने (तु० १।६२६) स्पशति । स्पशश्चरः ॥१४८।।
१३१. भलै तर्ज-संतर्जने । भर्ल्सयते, [तर्जयते] । लक्ष्ये भर्त्सयति तर्जयतीति दृश्यदे । एवं 'निशामयति, भालयति, कोटयति, वञ्चयति, निवेदयति' इत्यादि। अत एव चुरादिभूतान्स्वरान्वितान्नाकरोत् । भ्वादौ तर्ज भर्त्सने (१।१४०) तर्जति ॥१४६,१५०॥
१३२. बस्तं गन्ध प्रर्दने । वस्तयते। बस्तः, बस्तिः । गन्धयते, गन्धः । गन्धर्वो घोटकः ।।१५१,१५२॥
१३३. किष्क हिंसायाम् । किष्कयते। किष्कुर्हस्ते वितस्तो च नुदात्तेत्त्वात् 'तास्यनुदात्तङिददुपदेश' (अ० ६।१।१८६) इत्यादिना शानचोऽनुदात्तत्वे धातुस्वरो भवति ।
१. 'उदाजह्र :' पाठा०, मुद्रिते चान्द्रधातुपाठे तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः ।
२. उदात्तानुदात्तस्वरितविशिष्टान् इत्संज्ञकानित्यर्थः । काश्यपोऽप्याह'कार्याभावादेकश्रुत्या पठ्यन्ते' । चुरादय इति शेषः (द्र० धातु० पृष्ठ ३७०) ।