________________
चुरादिगण: (१०)
३०५
१२२. स्तुप' समुच्छ्राये । स्तूपयति । दिवादौ (४।१२५) स्तूप्यति । चन्द्रः षोपदेशमाह' तुष्टूपयिषति । स्तूपान्ते पर्यट्टके त्रिविशे सूत्रशते' द्विचत्वारिंशन्धातुशतम् | आदित; ।। १६७७ ॥१४१॥
३६
१२३. श्रा कुस्मादात्मनेपदी । कुस्म नाम्नो वा (१०।१५७ ) इति वक्ष्यति, प्रा एतस्मादितः परम् आत्मनेपदी गणः, यो यो धातुर्वा । अभिविधावाङ मर्यादायां हि प्राक्कुस्मादिति ब्रूयात् ।
५
-
१२४. चित संचेतने । चेतयते । भ्वादौ चिति संज्ञाने ( १।३४ ) चेतति ॥ १४२॥
१. ' स्तूप' इति युक्तः पाठः, अन्यथा 'स्तूपयति' इत्यत्र दीर्घत्वं न स्यात् । दिवादावपि ( ४ । १२५ ) स्तूप ' इत्येव' पठ्यते । अपि चैतस्मिन्नेव सूत्रव्याख्याने १० 'स्तूपान्ते पर्यट्टके' इत्यत्र दीर्घ एव निर्दिश्यते ।
२. क्व ग्रह इति न प्रतीयते । चुरादौ तु मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । दिवादाव् ( ४|७० ) अपि मुद्रिते चान्द्रपाठे 'स्तूप' इत्येव पठ्यते ।
३. अस्माकीना द्वाविंशोत्तरशतसूत्र संख्या भवति । 'वर्ण वर्णने' (१०।१७) इत्युत्तरं 'पक्ष परिग्रह इत्येके' इति पठ्यते । अस्माभिः प्रथमसंस्करणेऽस्य १५ सूत्रत्वं नोररीकृतम् । द्वितीयेऽस्मिन् संस्करणे यद्यप्यस्य पूर्वत्र ( ११४४७ ) इव सूत्रत्वेन स्थूलाक्षरेषु सूत्रसंख्यया सह मुद्रणमावश्यकमासीत् तथापि २२८तमपृष्टपर्यन्ते मुद्रितभागे दशमगणस्थधातूनां या या धातुसूत्रसंख्या निर्दिष्टा तासु सामञ्जस्य स्थापनाय पृथकसूत्रत्वेन निर्देश उपेक्षितः । वस्तुतः क्षीरस्वामिन इहोक्ता १२३ सूत्रसंख्या नेनैव सूत्रेण पूर्यते ।
४. श्रम निर्दिष्टया गणनया १४१ धातवो भवन्ति । अत्र पक्ष परिग्रह इत्येके' इति सूत्रस्थं पक्षधातु गणयित्वा स्वाम्योक्ता १४२ संख्याञ्जसोपपद्यते । द्र० पूर्वस्था टि० ३ । ५. 'सूत्रयेत' पाठा० ।
२०
इत्यस्य
६. ‘नाकुस्मादात्मनेपदिनः’ णिच्संन्नियोगेनाकर्त्रभिप्रायेऽपि श्रात्मनेपदमिति धातुवृत्तौ सायण: ( पृष्ठ ३८७ ) । वयं तु णिजभावपक्षे श्रात्मने - २५ पदिन इत्यनुमिनुमः । यतो हि वेदे 'चेतयति' ( ऋ० १ ३ | १२ ) ' चेतयते' ( ऋ० ६८६।४२ ) इत्युभयपदं णिचि दृश्यते । अपि च णिजभावपक्षे 'चेतते' ( ऋ० ३ | १४|२), 'चिताना:' ( यजुः १०1१ ) इत्यादिषु तङानी दृश्येते । 'चिताना' इत्यत्र 'बहुलं छन्दसि' (अ० २।४।७३ ) इति शपो लुकि धातोर