SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां ११२. गर्ध अभिकाङक्षायाम् । गर्धयति । दिवादी ( ४ | १३६ ) गृध्यति ॥ १२५॥ ११३. गुर्द पूर्वनिकेतने । पूर्वनिकेतनम् 'आद्यनिवासः । पारायणे द्वौ धातू - गुर्दयति, पूर्वयति । भ्वादौ पूर्वं पूरणे (१।३८१ ) - पूर्वति ॥ १२६ ॥ ५ ११४, जसि रक्षणे, ११५. दहि' च । जंसयति, दंहयति ॥१२७, १२८ ।। ११६. ईड स्तुतौ । ईडयति । दादौ ( २।१२) ईट्टे ॥ १२६ ॥ ११७. जसु हिंसायाम् । जासिनिप्रहण ( २।३।५६ ) इति षष्ठी १० चौरस्योज्जासयति । दिवादौ ( ४१०५) जस्यति ।। १३० ।। ३०४ ११८. पिडि संघाते । पिण्डयति । भ्वादौ ( १।१७७) पिण्डते । पिण्डः, पिण्डी । पडि इत्येके - पण्डयति । पण्डितः, पण्डा, स्वादौ ( १ | १८५) पण्डते ॥१३१॥ ११६. रुट रोषे । रोटयति । ग्रामरोटः । रुषेत्येनञ्चन्द्रो मत्त्वा १५ भ्वादिदिवादिभ्यां ( १।४५८, ४१२३) सिद्धमाह । रुट उपघाते । रूठ इत्येके ॥१३२॥ १२०. डपि डिपि संघाते । डम्पयति । डिम्पयति डभि डिभि इति दौर्गाः - - डम्भयति, डम्भः, डिम्भयति, डिम्भः ।। १३३, १३४॥ १२१. दभ दिभि तिप टिप डिप स्तिप क्षेपे । दाभयति । दिम्भ२० यति । दभि इति नन्दी | दम्भयति । तेपयति । टेपयति । डेपयति । स्तं पयति । डबि डिबि इति चन्द्र : - विडम्बयति । प्राडम्बरः, डिम्ब - यति । डिम्बं शस्त्रकलहः ।। १३५ – १४०॥ १. प्रत्र धातुवृत्तौ ' पूर्वनिकेतनमासाद्याभ्यवहारः' इति पाठः स्वामिनाम्नोद्धियते । २५ 1 २. सर्वहस्तलेखेष्वित्थमेव पठ्यते । गुर्द भ्वादाव् (१।२० ) अपि पठ्यते । तत्र दीर्घत्वस्यानित्यत्वमुक्त्वा गूर्दते गुर्दते इत्युभयथोक्तम् । ३. 'डभि - डम्भयति' पाठा० । ४. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy