________________
चुरादिगणः (१०)
३०३ १०३. कुपि' छादने । कुम्पयति । चिन्तपूजि (तु० ३३।१०५) इति कुम्पा । कुबि इति कौशिकः--कुम्बा सुगहनावृतिः -- (अमर०२। ७।१८) ॥११४।
१०४. लुबि तुबि अर्दने । लुम्बयति । प्रवासफललुम्बिभिः । तुम्बयति । तुम्बी, तुम्बकः । तुपि इति दौर्गाः । चान्द्रे त्रयोऽपि भ्वादौ ५ सिद्धाः ॥११५, ११६॥
१०५. ह्लप व्यक्तायां वाचि ॥११७॥
१०६. चुट छेदने । चोटयति । तुदादौ (६।८२) चुटति । चुटि इति नन्दी-चुण्टयति । चुडि इति दुर्गः ॥११८।।
१०७. इल प्रेरणे । एलयति । भ्वादौ-एलति ।।११९।। - १०८. म्रक्ष म्लेच्छने । म्रक्षयति ॥१२०॥
१०९. म्लेछ अव्यक्तायां वाचि। म्लेच्छयति । भ्वादौ (१। १२५) म्लेच्छति। म्रक्ष रोषे, म्लेछ अव्यक्ते शब्द इति सिद्धे चन्द्र एतौ नैच्छत् । बहुलमेतन्निदर्शनम् (१०।३२५) इति सर्वे चुरादौ .. पाठयाः इति चान्द्रोऽभिप्रायः ॥१२१॥
११०. बीस बर्ह हिंसायाम् । ब्रीसयति । ब्रूस इत्येके । बर्हयत्यरिम् । भ्वादौ बर्ह प्राधान्ये (१।४२३)बहते ग्राम्यः । ।।१२२,१२३।।
१११. गर्द शब्दे । गर्दयति । भ्वादौ (१।४७) गर्दति । गर्ज इत्येके ।।१२४॥
१. अत्राह सायणः- 'स्वामिकाश्यपमैत्रेयादयो बशन्तं पठन्ति' (धातु० २९ पृष्ठ ३८६) इति । बशन्तं बकारान्तमित्यर्थः । अत्र तु स्वामिमते पकारान्तः पाठः, कौशिकमते तु बान्तः । __२. 'चुडि इति नन्दी-चुण्डयति । चुटि इति दुर्गः' इति पाठान्तरम् । अयमेव पाठो युक्तः प्रतिभाति, कातन्त्रधातुपाठे 'चुटि छेदन' इति पाठदर्शनात् ।
३. म्वादौ 'इल' न क्वचित् स्वामिना पठ्यते । तुदादौ ६।६५ तु पठ्यते। २५ तौदादिके तु न भौवादिकं निदिश्यते ।
४. मुद्रिते चान्द्रधातुपाठे' 'म्रक्ष संघाते' (१।३१७) पठ्यते । ५. 'म्लेच्छ अव्यक्ते वचने' इति मुद्रिते चान्द्रधातुपाठे (१।५३) पठ्यते । ६. 'चान्द्रभिप्रायः' पाठा० । .