SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ चुरादिगण: (१०) २६७ ४८. पुस्त बुस्त आदरानादरयोः । पुस्तयति । पुस्तकः ', पुस्तं लेखकर्म । बुस्तयति । बुस्तिः शष्कुली । बुस्त' बन्धने इति चन्द्र: ( तु० चा० धा० १०।३५ ) ।।५३, ५४॥ ३८ ४६. चुद संचोदने । संचोदनं प्रेरणम् । चोदयति । चोदना, चोद्यम् ।।५५।। ५०. णक्क धक्क नाशने ।।५६, ५७॥ ५१. चक्क चुक्क व्यथने । चक्कयति । चक्कलकम् । चुक्कयति । चुक्कम् | चिक्क इति च कौशिकः - चिक्कसं यवपिष्टम्, चिक्कणं सस्नेहम् ।।५८, ५६।। ५२. क्षल शौचकर्मणि । क्षालयति ॥ ६० ॥ ५३. तल प्रतिष्ठायाम् । तालयति, उत्तालयति । तालः, के तालिका, ताली । अनित्यण्यन्तत्वात् तलति, तलम् ॥६१॥ ५४. तुल उन्माने । तोलयति । तोलना । चिन्तपूजि ( तु० ३।३। १०५) इति चकारात् तुला । तुलयतीत्यणिच्पक्षे कान्तात् ( द्र० ३ | १।१३५) तुल- शब्दात् णिच् ॥६२॥ | 1 ५५. दुल उत्क्षेपे । दोलयति । दोला, दोलितः । ग्रान्दोलितः, आन्दोलयति, प्रेङ्खोलयति, वीजयत्येते लोकात् ॥६३॥ १. अर्धर्चादित्वात् ( २|४ | ३१ ) पुंल्लिङ्गः । तथा च प्रयुज्यते कामसूत्रे १।४।७।। २. ' पुस्त' पाठा० । 'बुस्त वञ्चने' इति मुद्रिते चान्द्रपाठः ( १० । ३५) । ३. इतोऽग्रे लिबिशेन ‘केऽण: ' सूत्रस्य ( ७|४|१३ ) संख्या निर्दिष्टा, न च तस्य सूत्रस्यात्र किञ्चित् प्रयोजनम्, ह्रस्वभाव्यभावात् । यदि सूत्रसंस्था निर्देष्टव्याऽऽसीत्तर्हि कप्रत्ययविधायकस्य, यद्वा इद्विधायकस्य ( ७|३|४४ ) निर्देष्टु युक्ता । ४. इतोऽग्रे लिबिशेन 'बहुल मेतन्निदर्शनम्' इति सूत्रस्य १० । ३२५ संख्या निर्दिष्टा । न च तस्य सूत्रस्यात्र किंचित् प्रयोजनम् । इह तु प्रतिपदिकाद्धात्वर्थे' (१०।२९६ अस्मत्संख्या) सूत्रेण णिज् भवति । ५. अत्र पृष्ठ ४० टि० १; तथा पृष्ठ १८७, टि० २ द्रष्टव्या । ५ १० १५ २० २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy