SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २६६ .. क्षीरतरङ्गिण्यां तडित् । अलीकादौ (द्र० उ० ४।२५) तिन्तिडीकम् । पिनाकादयश्च (उ० ४।१५) इति तडाकः, ताडका । तट इत्येके–तात ताडय ताटकाम्', तटाकः ॥४२॥ . ३९: खड खडि भेदे । खाडयति, खण्डयति । कडि इत्येके । कण्ड५ यति ।।४३,४४॥ ४०. गुडि रक्षणे । गुण्डयति । कुडि इत्येके । अत एव कुडि दाहे (१।१७३) कुडि वैकल्ये (१।२२०) इति च सिद्धे चन्द्रो नैनमध्येष्ट ॥४५॥ ४१. गुठि वेष्टने । गुण्ठयति । गुण्ठना । गुण्ठितम् ॥४६।। __४२. खुडि खण्डने । खुण्डयति, खुण्डितः ॥४७॥ ४३. वडि विभाजने । वण्डयति, वण्डः । टान्त इत्येके-वण्टयति । भ्वादौ (१।२२४) वण्टति ॥४८॥ ... ४४. चडि कोपे । चण्डयति । चण्डः, चण्डा, चण्डी । भ्वादौ (१। १८२) चण्डते, चण्डालः ॥४६॥ १५ ४५. मडि भूषायाम् । मण्डयति । मण्डना, मण्डनम्, मण्डा एरण्डः । भ्वादौ (१११७५) मण्डते । एताँश्चन्द्रो नैच्छत्, तच्चासत्, कुडिकडिचडिवडिमडिभडीनां ह्यनित्यण्यन्तत्वान्न्याय्यविकरणे सिद्धे आत्मनेपदं नु कुतः स्यात् ? ॥५०॥ ४६. भडि कल्याणे । भण्डयति, भण्डना । भ्वादौ भडि परिभाषणे २० (१।१७६)- भण्डते, भण्डः ॥५१॥ ४७. छर्द वमने । छर्दयति । अचिशुचि (उ० २।१०८) इतीस् छर्दिः, इदन्तोऽपि ॥५२॥ .. १. अनुपलब्धमूलमिदम् । २. 'टान्तमेके इति स्वामी' इति धातुवृत्तौ (पृष्ठ ३८१) पाठः। . ३. अत्र पुरुषकारः (पृष्ठ ६८) द्रष्टव्यः । । ४. 'एतं च०' पाठान्तरम्, तच्चिन्त्यम्, उत्तरत्रानेकेषां धातूनां विषये २५ वचनात् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy