________________
चुरादिगणः (१०) . २६५ ३१. स्निट' स्नेहने । स्नेटयति । स्मिट इत्येके ॥३५॥ ३२. स्फिट अनादरे । स्फेटयति । स्फेटकः । संस्फेटस्तुमुलयुद्धम्
॥३६॥ ३३. श्लिष श्लेषणे । श्लेषयति। भ्वादौ (१।४६३) श्लेषति, दिवादौ (४।७७) श्लिष्यति ॥३७।।
३४. पथि गतौ । परिपन्थयति । परिपूर्वो वैरिवाचकः ॥३८॥
३५. पिच्च कुट्टने । पिच्चयति । पिचुः कर्पासः तुलं च पिचव्यः (द्र० ५।१।२ काशिका) ॥३६॥
३६. छद संवरणे। छादयति मुखम् । छदिर अर्जने (११५५०) मित्-छदयति । प्रा धृषाद् वा (१०।२०१) इति छद अपवारणे १० (तु० १०।२१५)-छादयति, छदति, रूपान्यत्वार्थं वेह पाठः-- छादयते । वा दान्तशान्त (७।२।२७) इति च्छन्नः, छदितः । छादेर्थेऽद्वय पसर्गस्य (६।४।६६) इति ह्रस्वः-प्रच्छदः, उरश्छदः, प्रसि संज्ञायां घः प्रायेण (३।३।११८), नेह संप्रच्छादः । इस्मन्त्रन्क्विप्सु च (तु० ६।४।६७) इति ह्रस्व:- छदिस् अचिशुचि (उ० २।१०६) इतीस। १२ छद्मः, छत्रम्, गृहच्छत् ॥४०॥
३७. श्रण दाने । श्राणयति । विश्राणनम् । युचि (३।३।१०७) प्राप्ते चिन्तिपूजि (३।३।१०५) इति चकाराद् अङ् इष्यते कुत्सावत् श्राणा, या भिक्षवे दीयते । हेतौ घटादित्वाच् (१।५३८)श्रणयति ।४१
३८. तड प्राघाते । ताड़यति । ता?णलुक् च (उ० १६८)- २० . १. पुरुषकारे क्षीरस्वामिनाम्ना स्निह' इत्युज्रियते । (पृष्ठ १२२) । पुरुप्रकार एव २७तमे पृष्ठे 'स्निट स्नेहने । स्नेटयति । स्मिट इत्येके' इत्येवमुदध्रियते । क्षीरस्वामी तु स्वयं 'ष्णिह प्रीतौँ' इति देवादिके (६१) धातुसूत्रे 'चुरादौ स्नेहयति' इत्युवाच । इत्थं कतमोऽत्र शुद्धः पाठ इति देवा एव ज्ञातुमर्हन्ति ।
२. उद्धृतं पुरुषकारे (पृष्ठ २७) । २५ ३. स्मृतमिदं सूत्रं व्याख्यानं च पुरुषकारे (पृष्ठ २७)।.. ४. स्मृतं धातुवृत्तौ (पृष्ठ ३८१) पुरुषकारे (पृष्ठ ८६) च ।
५. उत्तरत्र 'संवरणे' इति पठ्यते । तदेव स्वामिसम्मतं प्रतीयते, अन्यथात्र अर्थभेदार्थ वा इत्यत्यप्यवक्ष्यत् । सम्प्रति तु 'छद अपवारणे' इति गणान्ते (१०।३२१) पाठो दृश्यते।
३० ६. इतोऽग्रे ‘दन्तच्छदः' इत्यप्युदाजहारेति पुरुषकारः (पृष्ठ ८६) ।