________________
॥अथ चुरादिगणः॥
व्याख्यातेयं नवगणी कुशकाशावलम्बनात्,
चुरादिरधुनारब्धो यत्र भग्ना महारथाः। . पाठेऽर्थे 'चागमभ्रंशान्महतामपि मोहतः,
न विद्मः किं नु जहिम'; कि वात्रादध्महे वयम् ॥ १. चुर स्तेये । चुरादिभ्यो णिज् (३।११२५) इति स्वार्थे णिच् स्वरितेत् स्याद् ग्रहिः क्रयादौ, लक्षिश्चैकश्चुरादिषु इति लक्षेः (१०। ५) स्वरितेत्त्वस्मरणाण णिचश्च (१।३।७४) इति-कर्षभिप्राये
क्रियाफले तङ नास्ति । चन्द्रस्त्वत्राप्युभयपदित्वमाम्नासीत्, णिज१० विकल्पं च । चोरयति । प्रत्ययान्ताद् (द्र० ३।१।३५) आम्- चोर
यांचकार, अचचरत् । चोरयन्तं प्रयुक्तवानिति ण्यन्तादपि णिच्यचूचुरदित्येव । क्वि-लुग-उपधात्व-चपर-
निसि-कुत्वेषूपसंख्यानम् (१। ११५८ बा०) इति स्थानिवत्त्वनिषेधाण णौ णिलोपे ऽग्लोपित्वा
भावान् नाग्लोपिशास्वृदिताम् (७।४।२) इति णौ चङ्युपधाया (७। १५ ४।१) ह्रस्वनिषेधो नास्ति । पचादौ (गण० ३।१।१३४) चोरट,
चोरी । प्रज्ञादित्वात् (द्र० ५।४।३८) चौरः । छत्रादिपाठात् (गण०
१. 'वागम०' पाठा० । 'पाठे चार्थे चात्र संभ्रशा०' इति भूर्जपत्रलिखिते हस्तलेखे पाठः । द्र० भण्डारकरशोधप्रतिष्ठान पूना, सूचीपत्र सन् १९३८, पृष्ठ
१७५। २. अनेन चरणेन चुरादौ पाठदंशबाहुल्यं प्रदर्श्यते । २० ३. किं जहीमोऽत्र किं' पाठान्तरम् पूर्वोक्ते हस्तलेखे ।
४. दद्महे' पाठान्तरम् ।
५. न विदमः किञ्जिहीमोऽत्र वा किमुपादद्महे वयम्' पाठान्तरं प्रौढमनोरमायां (पृष्ठ ६१६), प्रक्रियाकौमुद्यां (पृष्ठ २६१) च।।
६. अनुपलब्धमूलमिदम् । अस्य साधू चरणं सायणोऽपि सस्मार (द्र० चुर २५ धातौ, पृष्ठ ३७७)।
७. सस्मार धातुवृत्तिकारः (पृष्ठ ३७७, ३७८)। काशकृत्स्नधातुकन्नडटीकायां परस्मैपदमेवोदाह्रियते।