________________
क्रयादिगण: ( 8 )
२८६
रात्मंभरिश्च ( ३।२।२७) । पदास्वरिबाह्या ( ३।२।११६ ) इति क्यप् –प्रगृह्यं पदम्, गृह्यकः पक्षी, ग्रामगृह्या सेना, अर्जुनगृह्या देवाः । ग्रहवृदृ ( ३।३।५८ ) इत्यप् - निग्रहः । उदि ग्रहो: ( ३।३।३५) घञ् - उद्ग्राहः । समि मुष्टौ ( ३।३।३६ ) -- संग्राहो मल्लस्य । श्रवे ग्रहो वर्षप्रतिबन्धे ( ३ | ३|५१ ) वा - अवग्रहः, अवग्राहः । अवग्रहो हस्तिललाटे ५ ( तु० अमर० २।६।३८ ) । प्रे वणिजाम् ( ३।३।५२ ) - तुलाया: प्रग्राहः, प्रग्रहः । रश्मौ च ( ३।३।५३ ) प्रग्राहः प्रग्रहः । श्राक्रोशेऽवन्योर्ग्रहः (३। ३।४५ ) - अवग्राहो ह ते वृषल भूयात्, निग्राहः । प्रे लिप्सायाम् ( ३।४६ ) - स्रुवप्रग्राहेण चरति द्विजो भिक्षार्थी । परौ यज्ञे ( ३ ३ | ४७) - उत्तरपरिग्राहं गृह्णाति । प्रक्षेषु ग्लहः ( ३।३।७० ) । तितुत्र ( ७ | २६) इत्यत्र ग्रहादेर्निषेधात् ( द्र० ७ २६ वा० ) - निगृहीतिः । नाम्न्यादिशिग्रहो: - ( ३।४।५८ ) णमुल् - नामग्राहं वक्ति । ग्रहेरनिः ( उ० ५।६७ ) - ग्रहणिः प्रवाहिका ॥ ६० ॥
३७
भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां क्रयादिगणः सम्पूर्णः ॥'
१. ' इति क्षीरतरङ्गिण्यां धातुवृत्तौ क्रयादिर्गणः सम्पूर्णः ' पाठा० ।
१५