________________
क्षीरतरङ्गियों
२१ - भू भर्जने च' । भर्जनं पाकः' ।।
२२. दृ विदारणे । दृणाति । दीर्णः दीणिः । विददरुः विदद्रुः । अत् स्मृदुत्वर (७|४|५ ) इति व्यददरत् । 'दुसनिजनि ( उ० १ ३ ) इति त्रुण् - दारुः । कृगृशदृभ्यो वः ( उ० १।१५५ ) - दर्वः । शुभसो - Sदिः ( उ० १1१३० ) - दरदो देश: । दरद् ईषदर्थेऽव्ययम् । तस्य दरेति प्राकृते अपभ्रंशः । स एव कविभिर्भ्रान्त्या प्रयुक्तः - दरदलितहरिद्रा (विशालभञ्जिका ३।१७ ) इति । कुवतृदारिभ्य उनन् ( दश ० उ० ५। ५२ ) - दारुणः । वृदृभ्यां विन् ( दश० उ० ११२३ ) - दविः । दृणातेर्हस्वश्च (तु० उ० ४।१८३ ) इति तिप् - दृतिः । १० उदि दृणातेरलचौ पूर्वपदान्तलोपश्च ( दश० उ० ८७ कपाठः) - उदरम् । फर्फरीकादयश्च ( उ० ४।२० ) – दर्दरीकम् । पचादौ ( गण ० ३।१।१३४) दरट्, दरी । पृषोदरादौ ( द्र० ६ । ३।१०९) दर्दरो वादयभाण्डम् । दर्दुरः । घटादौ । दु भये - ( ११५४५) दरति, दरयति । अस्माद् दारयति ॥ २१ ॥
५
१५
२०
२५
२८२
२३. जू वयोहानौ । नृणाति । जीर्णः जीणिः । दिवादी ( ४ २०) जीर्यति ||२२||
२४. नृ नये । नृणाति । नीर्णः, [नीणिः ] । घटादो ( ११५४६ ) नरयति । नरोऽचि ( द्र० ३ । । १३४ ) । नृनरयोवृद्धिश्च (४/१/७३ गणसूत्र ) - नारी ॥२३॥
२५. कु हिंसायाम् । कृणाति । कीर्णः । तुदादौ कृ विक्षेपे ( ६ । १११) - किरति ॥ १४॥
1
२६. ऋ गतौ । ऋणाति । समीर्णः । ईर्यते । अरिरिषति, अरिरीपति, ईषिषति ॥ २५॥
२७. गृ शब्दे । गृणाति । गीर्णः । गीणिः । उज्जगार । श्रगारीत् ।
1
'व
वरणे' इति । धातुवृत्तिकारस्तु पुरुषकारवचनमुद्धृत्याह - 'तत्राद्यशब्देन ञित् वृणातिरुच्यते । स्वामिशाकटायनावप्येवं पठित्वा भरणार्थत्वमाहतु; ' इति ( धातुवृत्तौ पृष्ठ ३६८ ) । क्षीरतरङ्गिण्यां मुद्रितशाकटायनधातुपाठे चोभयत्र दन्त्योष्ठ्यादिः पाठ एवोपलभ्यते ।
१. उद्धृतमिदं पुरुषकारे ( पृष्ठ ३६ ), तत्र 'पाक:' इत्यस्य स्थाने 'पाकम्’ ३० इति पाठः ।