________________
२७२
। क्षीरतरङ्गिण्या घृतादिसेकः । अनक्ति । अङक्ता, अजिता। स्मिङ पूज्वशां सनि (तु० ७।२।७४)-अजिजिषति । अजेय॑ति प्राज्यम् इष्यते (द्र० ३।१११०६ भाष्यम्) । अक्तः। ऋतन्यजि (४।२) इत्यलिचअञ्जलिः । अञ्जिष्ठुस्तिलादि । अङ क्त्वा, अक्त्वा, अजित्वा
॥२०॥ ५ २७. तन्ज़ संकोचने । तनक्ति । तङ क्त्वा, तक्त्वा, तजित्वा । तक्तः । तन्चू इति द्रमिडाः-तक्त्वा, तञ्चित्वा ॥२२॥
२८. प्रोविजी भयचलनयोः। विनक्ति । उद्विग्नः । उद्विजते तुदादौ (६।११) ॥२३॥
२६. वृजी वर्जने। वृणक्ति । अवृणक् । अपवृक्तः । वर्गः । १० वृजिनं पापम् । वृची वरण इति दौर्गाः -वर्कः । अदादौ (२।२० दुर्ग
मते) वृक्ते ॥२४॥ ___३०. पृची संपर्के । पृणक्ति । सम्पृक्त, । घञ् (द्र० ३।३।१६) सम्पर्कः, मधुपर्कः । अदादौ (२।२१)पृक्ते । चुरादौ युज पृची संपर्चने (१०।२०२) वा णिच् – संपर्चयति संपर्चति' ॥२५॥ ___ भट्टक्षीरस्वाम्युत्पेक्षितधातुवृत्तौ
क्षीरतरङ्गिण्यां रुधादिगणः सम्पूर्णः ।
-
.. . १. अत्र 'वृत्' इति न पठ्यते । धातुवृत्तौ सायणः वृत्करणं पठित्वा ऽऽह२० 'धातुपारायणे तु गणसमाप्तिर्नेष्यते । तेन लुनति पुनति इति सिद्धयति” (पृष्ठ
२. 'इति क्षीरस्वाम्युत्प्रेक्षितक्षीरतरङ्गिण्यां धातुवृत्तौ रुधादिगणः सम्पूर्णः' पाठा०।