________________
रुघादिगण: ( ७ )
( उ० ४११७६ ) - भुजिष्यो दासः । तुदादौ भुजो कौटिल्ये (६।१२२) - निर्भुजति ॥१७॥
२७१
२३. श्रनुदात्ता उदात्तेतः ।
२४. तृहि हिसि हिंसायाम् । इतोऽष्टौ सेटः परस्मैपदिनश्च । तृणह इम् ७।३।६२ ) – तृणेढि तृण्ढः, तू हन्ति । तृष्टि । तृहेः क्नो ५ हलोपश्च ( उ०५/८ ) तृणम् । हिनस्ति । हिन्धि, धि च (८२ २५) इति सलोपः । तिप्यनस्तेः ( ८ | २|७३ ) ग्र हिनद् भवान् । सिपि धातोर्वा ( ८|२|७४ ) - प्रहिनत् त्वम्, अहिनस्त्वम् । निन्द हंस ( ३|२| १४६ ) इति हिंसकः । नमिकम्पि ( ३।२।१६७ ) इति रः - हिंस्रः । हिंसा । हिंसीरो ( द्र० उ० ५।१८ गलाकर्षणशृङ्खला' ।। १८.१६।।
२५. उन्दी क्लेदने । उनत्ति । उन्दिदिषति । घञि - श्रवोध ( ६ ४ २९ ) इत्यवोदः क्लेदनम्। नुदविदोन्वत्रा (८०२५६ ) - इति वा नत्वम् -- समुन्नम् समुत्तम् । उन्देरिच्चादेः ( उ० १।१२ ) - इन्दुः | रक् ( द्र० उ० २।१३ ) - उद्रः । उन्दुर खनकः । उदकम् । उन्देर्नलोपश्च २|७६) इति युच् - श्रोदनम् । उत्सः प्रस्रवणम् ||२०||
२६. श्रजू व्यक्तिनक्षणगतिषु । व्यक्तिः प्रकटता, म्रक्षणं
१५
१. महाभाष्ये द्विः कृत्वा सिंहशब्दो हिसेर्वर्णव्यत्ययेन निष्पादित: ( द्र० हयवरट् सूत्रे, तथा ३ । १ । १२३ ) । तथैव च निरुत्केऽप्युक्तम् हिंसेर्वा स्याद् विपरीतस्य ३ । १८ ।। उणादौ ( ५।६२ ) तु सिचेन्यु त्पादितः । उभयमप्यर्थप्रदर्शनपरं निर्वचनम् । वस्तुतस्तु सिंहशब्दो सिंहतेरेव निष्पद्यते । सिंहिश्च २० काशकृत्स्नधातुपाठे कण्ठरवेण पठ्यते ( द्र० १।३१६; पृष्ठ ४८ ) मिहः - वनराज इति च तत्र व्याख्यायते ( पृष्ठ ४९ ) । तस्मान्नात्र केनचिन्मूर्खेण हिंस इति भूतपूर्वशब्दस्य स्थाने वर्णव्यत्ययेन सिंह इत्युक्तं, तदेव च भाषायां प्रसिद्धीभूतमिति कल्पनीयम् । वस्तुतस्तु सर्वत्रैव वैयाकरणा आगमादेशादिना मूलभूतां प्रकृति ( या तेषां काले प्रयोगाल्लुप्ताऽभूत् ) स्मारयन्ति इत्यन्यत्रास्माभिविस्तरेणोक्तम् (सं० व्या० शास्त्र का इतिहास, भाग ३, पृष्ठ २२-२६) ।
२. मृषक इत्यर्थः । द्र० अपरकोष २।५।११, १२ । तत्र 'उन्दुरुः' इत्युकारान्तोऽपि पठ्यते । द्र० हैमोणादि ४२३ । उन्दुर इत्यस्यापभ्रंशः 'ऊन्दर' 'ऊन्दरा' इति मारवाड़ीभाषायां प्रयुज्यते ।
२५