SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २७. क्षीरतरङ्गिण्यां ४।१८६) । वाविन्धे (उ० २।२६) रक् -वीधं विमलम्, नीधं पटलप्रान्तः ॥११॥ १६. खिद दैन्ये । १७. विद विचारणे। १८. अनुदात्तावनुदात्ततौ। खिन्ते । दिवादी (४।६१ दुर्गमते) खिद्यते । तुदादौ (६। १४१) खिन्दति । विन्ते । नुदविदोन्दत्रा (८।२।५६) इति वा निष्ठानत्वम् -वित्तः विन्नः ॥१२, १३॥ १९. शिष्ल विशेषणे । विशेषणं गुणान्तरोत्पादनम् । इतश्चत्वारोऽनिटः परस्मैपदिनश्च । विशिनष्टि । व्यशिषत् । कर्मणि तङि क्सः (द्र०३।१।४५)- व्यशिक्षत । विशिष्यते । चुरादौ शिष असर्वोपयोगे (१०।२११)-शेषयति । शिष्यत इति शेषः ॥१४॥ २० पिष्ल संचर्णने । चौरस्य पिनष्टि, जासिनिप्रहण (२।३। ५६) इति षष्ठी । अपिषत्, अपिष्ट, अपिक्षत । पेष्टा । शुष्कचूर्णरूक्षेषु पिषः (३।४।३८) णमुल्-शुष्कपेषं' पिनष्टि । उणादौ (द्र० दश० उ० वृत्ति ३।३४) पिनाकपिण्याकौ ॥१५॥ ... २१. भन्जो पामर्दने । भनक्ति । भङ्क्ता । अभाङ्क्षीत् । भग्नेश्च चिणि (६।४।३३) --अभाजि, अभजि । जपजभ (७।४। ८६) इत्यभ्यासस्यानुस्वारः-बम्भज्यते । जान्तनशां विभाषा (६। ४।३२) इति वा नुम् -भक्त्वा भङ्क्त्वा । भञ्जभासमिदो धुरच (३।२।१६१)-भगुरः । घञ् (द्र० ३।३।१६) भज्यतेऽनेनेति भङ. गस्तरङ्गः । क्ते-भग्नः । भङ्गिः ॥१६॥ . २२. भुज पालनाभ्यवहारयोः । अभ्यवहारो भोजनम् । भुनक्त्ति भुवम् । भुजोऽनवने (१।३।६६) तङ्-भुङ्क्तेऽन्नम् । भोक्त्ता । गतिबद्धिप्रत्यवसानार्थ (१।४।५२) इति कर्मसंज्ञा -भोजयति चैत्रं सक्तून् । भोज्यं भक्ष्ये (७।३।६६) साघु, भोग्यमन्यत्र' । भोजोऽचि २५ (द्र० ३।१।१३४) भुजन्युब्जी पाण्युपतापयोः (७।३।६१), अन्यत्र भोगः सुखम् । विश्वभोजः, भुज्युर्गन्धर्वः । रुचिभुजिभ्यां किष्यन् १. तिलपेषम्, तैलपेषम्' पाठान्तरे। २. भोग्यः' पाठा० । ३. अत्र लिबिशेन हैमोणादिसूत्रसंख्या ८०२ तुलनाय निर्दिष्टा । सत्यपि भज्युपदे नायमर्थस्तत्र निर्दिष्यते । भुज्युः पदं तु पञ्चपाद्यां (३।२१) दशपायां ३० (१।२३५) उभयत्र साध्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy