________________
॥अथ रुधादिगणः॥ १. रुधिर् आवरणे । आवरणं व्याप्तिः । इतः सप्तानिट उभयपदिनश्च । रुधादिभ्यः श्नम् (३।१७८)-रुणद्धि । अनुस्वारीभूतो णत्वमतिकामति --'रुन्छे, इनसोरल्लोपः (६।४।१११) । इरितो वा (३।१।५७) - अरुधत् अरौत्सीत्, अरुद्ध । सिपि धातो रुा (८।२। ७४)-अरुणत् त्वम्, अरुणः । न रुधः (३।१।६४) इति कर्मकर्तरि चिण् नास्ति -अरुद्ध गौः स्वयमेव । रोद्धा। संपृचादौ (द्र० ३।२। १४२) अनुरोधी । सप्तम्यां चोपपीडरुधकर्षः (३।४।४६) - व्रज उपरुध्य, व्रजोपरोधं गाः पाययति । इषितिमिमदि (द० उ० ८।२६ कपाठः) किरच्– रुधिरम् ॥१॥ ___२. भिदिर् विदारणे। भिनत्ति, भिन्ते । अभिदत् अभेत्सीत् अभित्त । भेत्ता । भित्तं शकलम् (८।२।५६), भिन्नमन्यत् । भिद्योध्यौ नदे (३।११११५) । काष्ठभित् । विदिभिदिछिदेः कुरच् (३।
२।१६२)-भिदुरं पविः । भित्तिः । कृतिभिदिलतिभ्यः कित् (उ० १५ ३।१४७)--भित्तिका । कृगशपकुटि (उ० ४।१४३) इती:-भिदि
वज्रम् । कर्मकर्तरि केलिमः (द्र० ३।१।६६ का०) भिदेलिमं काष्ठम् । रक (द्र० उ० २।१३)-भिद्रम् । इषितिमि (द० उ० ८।२६ कपाठः) इति किरच्–भिदिरम् । भिदादौ (३।३।१०४ गणसूत्र) भिदा विदारणे ॥२॥ .
३. छिदिर् द्वैधीकरणे । अव धस्य पृथक्त्वे। छिनत्ति, छिन्ते । अच्छिदत् अच्छेत्सीत्, अच्छित्त । छिदुरम्, रज्जुच्छित् । रक् (द्र० उ० ११२३) - छिद्रम् । छिदिः पशुः। छिदिरः, छित्वरः । भिदादौ (३।३।१०४ गणसूत्रम्) छिदा द्वैधीभावे, विच्छित्तिरन्यत्र ॥३॥
४. रिचिर् विरेचने । विरेचनं निःसारणम् । रिणक्ति, रिङ क्ते। २५ अरिचत् अरैक्षीत्, अरिक्त । रिक्तः । रिक्थं धनम् । रेक्णस् । चुरादौ
१. श्नमोऽकारलोपे, नस्यानुस्वारे, अनुस्वारस्य ययि परसवर्णः (८।४।५८) इति परसवर्णन नकारः । स च पूर्वत्रासिद्धम् (६।२।१) इति न्यायेन 'अटकुपु' (८।२।२) इत्यनेन णत्वे कर्तव्येऽसिद्ध इति कृत्वा णत्वं न भवतीति भावः ।।